Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 265
________________ 212 नयचक्रम् / [विध्युभयार: सत्यचतुरात्मकत्वात् / अवस्थाचतुष्टयाभावादेवानवस्थाऽऽत्मनस्तच्चातुरात्म्याऽभावः सिद्धस्तस्सादनेकान्तिकाशङ्कानिवृत्त्यर्थमाह-अनवस्थात्वेऽचतुरात्मकत्वादिति, खपुष्पवदिति दृष्टान्तो गतार्थः / अथवा किमनेन प्रयासेन ? उपपत्यन्तरैस्तदसत्त्वप्रतिपादनेन / ननु त्वदुक्तेरेव च न स लक्ष्यस्तत्परिकल्पितः पुरुषो नासौ लक्ष्यः / अलक्षणत्वादलक्ष्यत्वमिष्टत्वादसाध्यमिति चेल्लक्ष्यत्वनिराकतेरर्थनिराकरणार्थत्वान्नार्थ इति ब्रूमः / अर्थोऽप्यर्थत इत्वरलक्षणत्वाच्छब्दाभिधेयो ज्ञानज्ञेयो वा विनिद्रावस्थाऽविनिद्रावस्था वा स्यान्न स पुरुषस्तल्लक्षणस्तदुभयाभावात् निर्विकल्पत्वादेवार्थोऽपि नैवेति चेत् , निर्विकल्पज्ञानवत् वस्तुत्वमपि न भवतीत्येतत्प्रतिपादनार्थत्वादिदमेव गृहाण अवस्त्वेव च तत्त्वदिष्टं तत्त्वमलक्षणत्वात् / खपुष्पवत् / अथात इत्यादि, यावदस्यावाच्यतैवेति / __ अथाचक्षीथाः-अत इति पुरुष इतश्चेत्यवस्थातः अन्यतरस्य पुरुषस्यावस्थानां वा परित्यागैकान्तो न युक्तः / अवस्थात्यागे लक्षणाभावात् पुरुषाभावप्रसङ्गात् / अवस्थावतः पुरुषस्य वा त्यागेऽवस्थानामभावप्रसङ्गात् / न चैकतरस्योपादानं युक्तमुपादीयमानस्येतराभावेऽभावप्रसङ्गादेवावस्थावपूर्णननिर्विकल्पत्वसर्वगतत्वाभावप्रसङ्गात् प्रतिज्ञाव्याघाताच्च / तस्मादन्यतरोपादानपरित्यागायुक्तत्वादस्य पुरुषस्यावस्थालक्षत्वमवस्थाऽसत्त्वं वा न शक्यं वक्तुम् / किं तर्हि ? तल्लक्षणतत्त्वाभ्यामवाच्यः स पुरुष इत्येतच्चायुक्तम् / यस्मात् तत्त्वात् स नैव स्यात् / एतस्यामपि कल्पनायां स पुरुषोऽसन्नेव / कस्मात् ? विनिद्रावस्थया सहैकत्वान्यत्वे प्रत्यवचनीयत्वात् खपुष्पवत् / विनिद्रालक्षणः पुरुषो न विनिद्रालक्षणो वेत्येते द्वेऽन्यत्वाऽनन्यत्वे प्रतिवचनीये, अर्थादसञ् पुरुषः न तदेकं नान्यद्वा वाच्यं खपुष्पं विनिद्रावस्थया सह / किं कारणम् ? एकमिति, यावदवाच्यमसत्त्वादन्यदित्यप्यवाच्यमविनिद्रावस्थया सह / किं कारणम् ? एकमिति, तावदवाच्यमसत्त्वादन्यदित्यप्यवाच्यम् / अविनिद्रावस्थात्वे सत्यप्यसत्त्वे निरुपाख्यत्वात् वाग्बुद्धिगोचरातिक्रान्तत्वादिति, खपुष्पे दृष्टान्त हेतोः साध्येनाविनाभावित्वप्रदर्शनम् , यत्तु सत् तद्विनिद्रावस्थयेत्यादि वैधर्म्यदृष्टान्तः, साध्याभावे हेत्वभावार्थप्रदर्शनम् / मा मंस्था अस्मदिष्टसमुदयावस्थास्वात्मनि सत्यवचनीयताया दर्शनादनेकान्तिकतेति विनिद्रावस्थास्वात्मानं जाग्रदाद्यवस्थास्वात्मनश्च निदर्शयत्यन्यानन्यत्वे प्रतिवचनीयत्वात् / यथा विनिद्रावस्थास्वात्मनो विनिद्रावस्थातोऽनन्या जाग्रदवस्थादिखात्मभ्योऽन्या तथा ता अपि तस्या अन्याः स्वात्मभ्योऽनन्याः सत्यश्व, न तथा पुरुषस्तस्मादसन्निति / 1 अवस्थात्वे ग / 2 तत्वात्मनैव घ / सन्ने छ / 3 °वोऽयं ग। 4 °ता यावदने ग।

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384