Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 280
________________ पुरुषावस्थयोर्विचारः / न्यायागमानुसारिण्यलङ्कृतम् / 227 गुणप्रवृत्तिर्विपत् 'गण गुण संख्याने' शब्दैकसंख्यानप्रवृत्तिरेकस्मात् कारणाद्भवेत् त्वन्मतविरोधात् / नानेकात्मकैकस्माच्छब्दस्पर्शादिद्वित्रिचतुःपञ्चगुणा भवद्वाय्वादिवत् त्वन्मतविरोधात् / प्रयोगश्चात्र-न प्रवर्तत एव, शब्दैकगुणाकाशं तन्न भवेदित्यर्थः / असद्भूतेः 'गुणसद्भावो द्रव्य'मिति लक्षणाभावाद् बहूनां हि गुणानामेकीभवनमैक्यभवनं सद्भूतिस्तदभावोऽसद्भूतिस्ततोऽसद्भूतेन प्रवर्तेत / पुरुषवद् वन्ध्यापुत्रवद्वेत्यत्र तदनिष्टापादनमिति / / __ अत्राह-शब्दे त्रैगुण्यमस्त्येवेति चेत् / सर्वस्योक्तसुखदुःखमोहमयत्वाच्छब्दोऽपि तदात्मा त्रिगुण एवेति चेदित्याशङ्कायाम् / एवं चेन्मन्यसे / साधूक्तं एतदेव त्वावाचयितुमवोचतं शब्दैकगुणवियदप्रवृत्तिप्रसङ्ग इति / ततश्च यत्पुनरत्रिगुणं सुखादि, सुखमेव पृथक्प्रधानावस्थायां सत्त्वं तदत्रिगुणमेकसुखस्वात्मत्वादव्यतिरिक्तम् / तस्य भावस्तत्त्वम् / यथा तत्सुखमेकस्वात्मत्वात् व्यतिरिक्ततत्त्वं प्रकाशादिश्च तस्य तत्त्वस्यात्मा सर्वत्राभेदभावात् , तेन प्रकाशात्मना मा प्रवृत्तीष्टमापत्तिभवनमनुभूतनिर्गुणत्वात् / गुणसद्भावानात्मकत्वात् / एकत्वादनेकात्मकैकत्वात् / वैषम्यानुपपत्तेरपरिणामित्वात् / वैषम्यापत्तितोऽहि परिणामित्वं स्यात् / साम्यावस्थायां तु गुणानां तदभावाद्वैषम्यानुपपत्तिरतो परिणामित्वं अनापत्त्यात्मकत्वात् / रूपान्तरप्राप्त्यनात्मकत्वात् / तस्यां ह्यवस्थायामेवंस्वरूपं सत्त्वम् / दृष्टान्तः पुरुषवत् / यथा पुरुषोऽपि निर्गुणत्वादिधर्मत्वान्न प्रवर्तते / तथा सुखाद्यपि प्रवृत्तीष्टनिर्गुणत्वादिधर्मत्वे सत्यपि सुखादि प्रवर्तत एव चेत् / तथातद्धर्मत्वात् पुरुषोऽपि प्रवर्ततामेभ्य एव सुखादिवत् गुणस्यान्यतमस्यैव वा श्वयथुरकस्मात् कुत उत्पन्नः ? / किं चान्यत्-शब्दादि वाप्येकात्मकायेव निर्गुणमेकं समानपरिणामि चैवमापद्यमानत्वात् / प्रधानावस्थानां प्रवर्तमानत्वात् सुखादिवत् / अनेकात्मकमित्यादि विपर्ययधर्मोपादानं गतार्थम् / त एवेति / आह-नैवेत्यादि सिद्धसाधनमिदम् मा प्रवर्तिष्टेति न प्रवर्तत एव सुखादि अप्रवृत्तिलक्षणत्वात् / न हि सुर्ख मोहो वा प्रवृत्तिलक्षणम् , किं तर्हि ? रज एव प्रवृत्तिलक्षणम् / प्रत्येकं हि सत्त्वादयः प्रकाशप्रवृत्तिनियमलक्षणास्त्रयोऽपि ततोऽप्रवृत्तिलक्षणत्वान्न प्रवर्तन्ते, सुखं पुरुषवत् / वैषम्यावस्थायां तु रजः प्रवर्तते / प्रवर्तयति च सुखं मोहं चाप्रवृत्तिलक्षणत्वात् तयोरिति / अत्रोच्यते-त्रयमपि न न प्रवर्तते, प्रवर्तत एव / अविभक्तवतत्त्वस्य तथा प्रविभक्तत्वेन व्यवस्थानात् / यदविभक्तखतत्त्वं तेन तेन प्रकारेण प्रविभक्तत्वेन व्यवतिष्ठते तत् प्रवर्तत एव / यथा मयूराण्डकरसगतग्रीवादिभावाः, मयूराण्डकरसावस्थायां ग्रीवावर्हादयोऽविभक्तवतत्त्वा ग्रीवादित्वेन प्रवि 1 तन क-ख। 2-3 म्भू ग। 3 गमनम् क-ख /

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384