Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ सुख-दुःख-भेदाभेदविचारः] न्यायागमानुसारिण्यलकृतम् / 235 निरसनादुष्णत्वनिरसनेनाग्यभावप्रतिपादनवत् / कृतं भङ्गचक्रावर्तनमापादितं चैकैकपूर्वकमिदम् / नानेकैकपूर्वकमित्येतदापनमित्याह-एवं चैकैकपूर्वकवादापत्तेरेवेत्यवधारणार्थत्वादेवकारस्य / ततश्च त्रिगुणप्रधानकारणकल्पनानर्थक्यमिति / ___ अत आह-किमनेकात्मकैककल्पनया ? यदि प्रवृत्तिलक्षणप्रधानमेवैकं प्रकाशनियमप्रवृत्तिरूपेण प्रवर्तते / प्रवृत्तिरेव चैका त्रिगुणरूपा ततश्चोभयथाप्येकैककारणवाद एवेति / पृथगात्मकत्रिगुणकारणकल्पनाव्याख्याया नाममात्रम् / तस्मादेकात्मकैकमेव व्यक्त्यन्तरसहस्रकारणायानेकाकारं भवति / यथा प्राग्वर्णितपुरुषादिकारणपूर्वकानन्तप्रभेदजगत्सृष्टिसमर्थ यत् तदेवास्त्वनेकाकारं, किं त्रिगुणमित्येतावतेति / किं चान्यत् , यद्यपि त्वदुक्तैर्हेतुभिः सङ्घातपारार्थ्यादिभिः प्रकृतेरन्यः पुरुषः सिध्यति / सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् पुरुषोऽस्ति भोक्तृत्वात् / कैवल्यार्थप्रवृत्तेश्चेति / तथापि च तस्य कारणस्य चेतनादन्यत्वे सत्येवैतानि स्वरूपाणि स्थितानि / चेतनस्य परस्यार्थे प्रवृत्तेरचेतनस्य भोक्तृत्वाद् रूपादिपरिणामिनोऽचेतनत्वाच्च / तेनैवाचेतनत्वेनैकत्वं स्थितम् / न ह्याचैतन्यस्य भेदोऽस्ति, परिणामित्वं चास्य तत एव स्थितमापत्तिभवनस्य रूपादिरूपस्य परिणामाख्यत्वात् तस्य च सन्निधिभवनाद् भिन्नत्वात् / यथोक्तम्-'तच्चेव ते पोग्गला परिणमंतिते चेव ते पोग्गला दुब्भिगंधत्ताए परिणमंति' त्ति / ततस्तस्य सङ्घातपारार्थ्यादिभिश्चेतनारूपद्रव्यत्वे स्थिताचैतन्यैकत्व-परिणामित्वानिवृत्तयोऽस्य / तदिदं कारणं स्थिताचेतनत्वैकत्व-परिणामित्ववृत्ति / तच्च सुखमिति वा, [ दुःखमिति वा] मोह इति वा। परिमाण(गामित्व इति वा, कारणमित्येव वा उक्तवत् उक्तेन तुल्यमुक्तवत् / ___ यथोक्तम्-'भिन्नात्मकतायां तु सत्वं न प्रकाशेताप्रवृत्तित्वात्' इत्यतः प्रवृत्तिं यावदेषोऽवधिस्तद्वदुक्तवदेव स्थापितात्मस्वतत्त्वप्रवृत्तित्वात् / आत्मस्वतत्त्वेन स्थापिताऽस्य प्रवृत्तिरित्यतः किमिति न गम्यते त्वया वक्ष्यमाणसाधनवदनन्ये सुखदुःखे ? इति / किं स्वपक्षरागान्मोहाद् वा मया वा किमिति नोच्यते / तत्त्वकथायां प्रस्तुतायां किमनुवृत्त्याऽऽयतिलोपायसो(शो)भयादितो वेति / किं पुनस्तत्साधनमिति चेत्, सुखादनन्यदेव दुःखमनात्मत्वे वरणाद्यात्मकत्वात् वरण-सदनापध्वंसन-बैभत्स्य-दैन्य-गौरवाणि वरणादीनि, वरणादीन्यस्यात्मा कार्य तद् वरणाद्यात्मकं तमः, न वरणाद्यात्मकमवरणाद्यात्मकम् / किं तत् ? दुःखम् , तस्यानात्मत्वे 1 कैकमि भ। २०त्तिभ। 3 तृप।
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384