________________ सुख-दुःख-भेदाभेदविचारः] न्यायागमानुसारिण्यलकृतम् / 235 निरसनादुष्णत्वनिरसनेनाग्यभावप्रतिपादनवत् / कृतं भङ्गचक्रावर्तनमापादितं चैकैकपूर्वकमिदम् / नानेकैकपूर्वकमित्येतदापनमित्याह-एवं चैकैकपूर्वकवादापत्तेरेवेत्यवधारणार्थत्वादेवकारस्य / ततश्च त्रिगुणप्रधानकारणकल्पनानर्थक्यमिति / ___ अत आह-किमनेकात्मकैककल्पनया ? यदि प्रवृत्तिलक्षणप्रधानमेवैकं प्रकाशनियमप्रवृत्तिरूपेण प्रवर्तते / प्रवृत्तिरेव चैका त्रिगुणरूपा ततश्चोभयथाप्येकैककारणवाद एवेति / पृथगात्मकत्रिगुणकारणकल्पनाव्याख्याया नाममात्रम् / तस्मादेकात्मकैकमेव व्यक्त्यन्तरसहस्रकारणायानेकाकारं भवति / यथा प्राग्वर्णितपुरुषादिकारणपूर्वकानन्तप्रभेदजगत्सृष्टिसमर्थ यत् तदेवास्त्वनेकाकारं, किं त्रिगुणमित्येतावतेति / किं चान्यत् , यद्यपि त्वदुक्तैर्हेतुभिः सङ्घातपारार्थ्यादिभिः प्रकृतेरन्यः पुरुषः सिध्यति / सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् पुरुषोऽस्ति भोक्तृत्वात् / कैवल्यार्थप्रवृत्तेश्चेति / तथापि च तस्य कारणस्य चेतनादन्यत्वे सत्येवैतानि स्वरूपाणि स्थितानि / चेतनस्य परस्यार्थे प्रवृत्तेरचेतनस्य भोक्तृत्वाद् रूपादिपरिणामिनोऽचेतनत्वाच्च / तेनैवाचेतनत्वेनैकत्वं स्थितम् / न ह्याचैतन्यस्य भेदोऽस्ति, परिणामित्वं चास्य तत एव स्थितमापत्तिभवनस्य रूपादिरूपस्य परिणामाख्यत्वात् तस्य च सन्निधिभवनाद् भिन्नत्वात् / यथोक्तम्-'तच्चेव ते पोग्गला परिणमंतिते चेव ते पोग्गला दुब्भिगंधत्ताए परिणमंति' त्ति / ततस्तस्य सङ्घातपारार्थ्यादिभिश्चेतनारूपद्रव्यत्वे स्थिताचैतन्यैकत्व-परिणामित्वानिवृत्तयोऽस्य / तदिदं कारणं स्थिताचेतनत्वैकत्व-परिणामित्ववृत्ति / तच्च सुखमिति वा, [ दुःखमिति वा] मोह इति वा। परिमाण(गामित्व इति वा, कारणमित्येव वा उक्तवत् उक्तेन तुल्यमुक्तवत् / ___ यथोक्तम्-'भिन्नात्मकतायां तु सत्वं न प्रकाशेताप्रवृत्तित्वात्' इत्यतः प्रवृत्तिं यावदेषोऽवधिस्तद्वदुक्तवदेव स्थापितात्मस्वतत्त्वप्रवृत्तित्वात् / आत्मस्वतत्त्वेन स्थापिताऽस्य प्रवृत्तिरित्यतः किमिति न गम्यते त्वया वक्ष्यमाणसाधनवदनन्ये सुखदुःखे ? इति / किं स्वपक्षरागान्मोहाद् वा मया वा किमिति नोच्यते / तत्त्वकथायां प्रस्तुतायां किमनुवृत्त्याऽऽयतिलोपायसो(शो)भयादितो वेति / किं पुनस्तत्साधनमिति चेत्, सुखादनन्यदेव दुःखमनात्मत्वे वरणाद्यात्मकत्वात् वरण-सदनापध्वंसन-बैभत्स्य-दैन्य-गौरवाणि वरणादीनि, वरणादीन्यस्यात्मा कार्य तद् वरणाद्यात्मकं तमः, न वरणाद्यात्मकमवरणाद्यात्मकम् / किं तत् ? दुःखम् , तस्यानात्मत्वे 1 कैकमि भ। २०त्तिभ। 3 तृप।