________________ नयचक्रम् [विध्युभयारः सत्यवरणाद्यात्मकत्वात् सुखादनन्यत्वमेव / किमर्थं पुनरनन्यदेवेत्यवधार्यते ? / उच्यते-अवधारणेन च सुखादनन्यदेवेत्यनेना(न) वक्ष्यमाणसाधनान्तरापक्षिप्तान्यत्वो विपक्षाभावः सूच्यते / वक्ष्यमाणं साधनं सुखादनन्य एव मोह इति, तेनापक्षिप्तमन्यत्वं तमसोऽपीति विपक्षाभावः सोऽनेनावधारणेन सूच्यते / पुरुषस्तु स्यात् सुखादन्यत्वाद् विपक्षस्ततो व्यावर्तनार्थमनात्मत्वे सतीति विशेषणम् / सुखखात्मवदिति दृष्टान्तः। यथा वरणाद्यात्मकत्वात् / सुखस्वात्मा सुखादनन्यः / एवं दुःखमप्यवरणाद्यात्मकत्वात् सुखादनन्यदिति / अन्यस्मादिति हेतोरव्यभिचारव्याख्यातम् / सुखादनन्यत्वेन दुःखे साध्येऽनात्मत्वविशेषणेनात्मनि निरस्ते साधनान्तरनिरस्ते तमसोऽन्यत्वे न किञ्चित् सुखादन्यदस्ति / तस्मादन्यस्य कस्यचिदभावाद् विपक्ष एव नास्ति, विपक्षाभावादेवावृत्तिरसपक्षेऽस्य हेतोरित्यव्यभिचारी हेतुः / मोहेऽन्यत्वमिति चेत् तत् निवर्तयिष्यते व्याख्यातार्थस्फुटीक्रियादौ चोद्योत्तरपक्षी गतार्थों न विवियते / अंवरणाद्यात्मकत्वात् कुतोऽन्यत्वनिवृत्तिरिति चेत् / / _स्यान्मतम् - वरणाद्यात्मकमोहनतिषेधादेवावरणाद्यात्मकाभ्यां सत्त्व-रजोभ्यां मोहस्य प्रतिषेध्यस्थान्यत्वं सिद्धं, तस्मान तदन्यत्वनिवृत्तिरिति / एतच नावरणाद्यात्मकत्वादिति / अवरणाद्यात्मकशब्दस्य विधिप्रधानपर्युदासात्मकत्वात् / नो हि द्वयी गतिः, प्रसज्यप्रतिषेधः, पर्युदासश्च / यथा ब्राह्मणो न भवत्यब्राह्मण इति ब्राह्मणस्य निवृत्तिप्रधानः प्रसज्यप्रतिषेधः / ब्राह्मणादन्योब्राह्मणः क्षत्रियादिरिति क्षत्रियादिविधान प्रधानः] पर्युदासस्तथेहाप्यवरणाद्यात्मकत्वादिति / वरणाद्यात्मकान्मोहादन्यदवरणाद्यात्मकं शोपादि-प्रसादाद्यात्मकं विधीयते / वरणाद्यात्मकत्वस्य तु विधिन ( विधानप्रधानः ) प्रतिषेधः, पर्युदासात्मकत्वात् , न तु प्रसज्यप्रतिषेध इति / तदर्थसमर्थनार्थ दृष्टान्तमाह-[अनपुंसकवचनादप्रतिषेधे] ऽनपुंसकसुटि सर्वनामस्थानत्ववत् / “यथा नपुंसकादन्यत्र सुटि सर्वनामस्थानसंज्ञं भवतीति, स्त्री-पुंसयोः सुटः सर्वनामस्थानसंज्ञा विधीयते, नपुंसके तु शिः सर्वनामस्थानम्" इति विध्यन्तरविहिता सुटः सर्वनामस्थानता न विहिता न निषिद्धा, तथेहापि वरणाद्यात्मकत्वस्य न विधिने प्रतिषेधः / शोप-प्रसादाद्यात्मकत्वविधानादिति / स्यान्मतम्-वैषम्याददृष्टान्तोऽयम् / सम्बन्धिनः सुटः सर्वनामस्थानविधाने नपुंसकानपुंसकविषयत्वाविरोधाद् युज्येत / सर्वनामस्थानसंज्ञाविषयस्य तु नपुंसकानपुंसकत्वविरोधवद् वरणावरणाद्यात्मकत्वानुपपत्तिरिति / एतदपि च न वैषम्यायात्रापि न १तनात्मभ।२ सुखाभ।३ स्वात्मदन्यःभ, स्याप।४°धिप। 5 आव०प।