________________ सुख-दुःखादिभेदाभेदविचारः ] न्यायागमानुसारिण्यलकृतम् / 237 तुल्यत्वात् / तटस्तटं तटी स्त्रीपुंनपुंसकाः, स्त्रीपुंनपुंसकत्ववदेतत् स्यात् / एकस्मिन्नेव लिङ्गत्रयदर्शनात् / दृष्टं हि तटे लिङ्गत्रयम् , तटं तटस्तटीत्येकस्मिन्नेव / यदा च नपुंसकलिङ्गं तदा न स्त्रैणं न पौनम् / पुंस्त्वे न स्त्रीता, न नपुंसकता। स्त्रीत्वे नेतरद्वयतेत्यस्त्रीपुनपुंसकत्वं च / तथा वरणाद्यात्मकत्वमस्तु को दोषः ? सरूपैकशेषाकरणमनुकरणत्वाल्लिङ्गत्रयव्यक्त्यर्थमित्यदोषः / एवं तर्हि सुख-दुःखयोरपि वरणायात्मकत्वादवरणाद्यात्मकत्वासिद्धिरेव / वरणाद्यात्मकत्वसिद्धौ चानन्यत्वासिद्धिरिति चेत् नेत्युच्यते-अवरणाद्यात्मकत्वेऽप्यनन्यत्वाद् वरणाद्यात्मकत्वस्य / अवरणाद्यात्मकत्वे अपि सुख-दुःखयोर्वरणाद्यात्मकत्वतोऽनन्ये तस्मादभिन्ने वरणाद्यात्मके एव, प्रसाद-शोपादिकायभेदेऽपि कारणत्वानात्मत्व-परिणामित्वादिभ्यः / किमिव ? अवरण-सदनादिमोहात्मकत्ववत् / यथा मोहात्मकानि वरणादन्यानि सदनादीनि वरणात्मक-मोहात्मकान्यप्यवरणात्मकानि / यथा वा मोहावरणविलक्षण-सदनापवंसन-बैभत्स्य-दैन्य-गौरवधर्मापि वर्णा(रणा)त्मक एव / [कार्य]कारणयोरभेदाद् भेदाचान्यथा पौनरुक्त्यानर्थक्ये ग्रन्थदोषौ व्यपदेश्य-व्यपदेशाभावदोषश्च स्युः, नेष्यन्ते च तथा, तस्माद् वरणावरणाद्यात्मकत्वं मोहस्यासदनादीनां चैषितव्यम् / यथा चैतत् तथा सुख-दुःखे प्रसाद-शोषादयश्च वरणाद्यात्मकाः स्युः, तस्मात् सुख-दुःखयोरनन्यत्वहेतुव्यभिचारप्रदर्शनाय नासपक्षोऽस्तीति / किं चान्यत् , वक्ष्यमाणवञ्च वरणाद्यात्मकत्वेऽप्यनन्यत्वादवरणाद्यात्मकत्वस्य प्रापितत्वात् / 'वक्ष्यति हि सुखादनन्यत् तमः, प्रकाशादनन्यो नियमः' इति च / तत्र तमसो वरणाद्यात्मकत्वे प्रसाद-शोपादिकार्यादेकस्मादेव सुखादनन्यत्वं साधयिष्यते, तमसोऽप्यतस्तरमादनन्यत्वाद् वरणाद्यात्मकमप्यवरणाद्यात्मकं तमः सत्त्व-रजोवत् / किं चान्यत् , अवरणाद्यात्मकत्वस्य वर्णा(रणात्मके सत्येवानन्तरं प्रापितत्वात य(त)था वक्ष्यमाणत्वादिति / इतर आह-- असाधनमिदं, सर्वतुल्यत्वात् / प्रसिद्धिविरुद्ध सिद्ध्यति / प्रसङ्गात् प्रसिद्धिविरुद्धानामप्यर्थानां सिद्धिरेवं सति प्रसज्यतेऽर्थान्तरधयं(म)-निवृत्त्या तयात्मत्वापादनात् / तद्यथा- शक्यते हि वक्तुं घटः कटादनन्यः, तन्त्वनात्मकत्वात् / यस्तन्त्वनात्मकः स कटादनन्यः / यथा घटः स्वात्मा / यः कटादन्यः स तन्त्वनात्मको न भवति, यथा पट इति; वैवर्येण पटवदित्युक्तम् / आचार्य आह- अथ सर्व तुल्यता कथं दोपः ? स्वमतेन परमतेनेति प्रश्न उभयथाप्यदोष इति मन्यमानस्य यदि ते स्वस्मिन्नेव मते दोषस्ततस्तव प्रसिद्धिविरोधदोषा] शक्तिर्ममाभिमतैव त(त्व)त्प्रतिवादिनः, मम तु सर्वानन्यथापादनमभिमत