________________ 238 नयचक्रम् / [विध्युभयारः मेव / भावपक्षवत् / यथा भावविधिविधिनयमतेऽनन्तरातीते सर्वानन्यत्वमिष्टमेतस्योदाहरणमात्रत्वादुक्तक्रमेण स्वभाव-काल-नियति-पुरुषपक्षवच्च / वक्ष्यमाणविधिनियमवच्च यथास्वमभिमता च / एवं तावत् परवाद्यभिप्रायवशात् त्वन्मते दोषाशक्तिरिष्टा, न केवलं पराभिमतेरे(ए)व / किं तर्हि ? अपि च स्वमतेऽपि सर्वानन्यत्वं सुखाद्य[न्वयमात्रत्वात् सर्वस्य / न तु घटः कटादनन्यः,सुख-दुःख-मोहान्वितमेतद् बाह्याध्यात्मिकभेदरूपं जगदिच्छतस्ते त्रैगुण्यजात्युच्छेदेन सर्व सर्वात्मकमेव त्रैगुण्यान्वयानतिरेकात् / को हि सत्त्वाद्यतिरिक्तः ?, यदि सत्त्व-रजस्तमोऽतिरिक्तं किश्चित् स्यात् सर्वसर्वात्मकवादे दोषः स्यात् / न त्वस्ति / तस्मात् तवैवादोषः / स्यान्मतम्-घटः कटे त्रिगुणोऽपि नास्तीति / ततश्च सत्कार्यवादत्यागो वा तत्राभावात् / यदि सत्त्वादिगुणे मृदादौ कटादिर्न स्यात् त्रिगुणोऽपि तथा घटोऽपि मा भूत् / अतोऽसन् घटः, पश्चादुत्पन्नस्तत्र प्रागभूत इत्यसत्कायेवादः, सत्कायवादत्यागश्च प्राप्तः। किंचान्यत् , प्रकाशादिविविक्तस्वरूपगुणसमुदयाभ्युपगमाद् रूपादिस्कन्धसमुद[यवाद] एवायमपि, देशभिन्नयुगपद्भाव्यनिर्देश्यगुणसमुदयमानत्वात् / क्षणिकवादश्चायुगपद्भावि-पिण्ड-शिवकाद्यनिर्देश्यनिर्विकल्पार्थमात्रत्वादत एव च शून्यवादापत्तिरनिदेश्यस्वभावत्वात् , खपुष्पवत् / रूप-रस-गन्ध-स्पर्श[-संख्या]-संस्थानादीनां घटादिषु दृष्टानामन्यत्वाद् [ वा] विपक्षोऽस्तीत्याशङ्केथास्तत्रापि रूपादीनां चाप्यनेनेत्यादि यावत् प्रत्युदाहरणाभाव एव / [न] रूपं रसादनन्यत् , अगन्धाघात्मकत्वाद् , रूपस्वरूपवदित्यादि प्रसिद्धिविरुद्धं सिद्ध्यति / प्रसङ्गोऽपि ते त(त्व)त्प्रतिवादिनो दोषाशक्तिरभिमतैवेति / तदेव यावद् भावपक्षवदिति / पुनश्च स्वमतेऽपि सुखाद्य[न्वयमात्र]त्वादित्यादि यावत् समुदायक्षणिकशून्यवादापत्तेरिति समानश्वार्थः। एवं सुखादनन्यद् दुःखमित्येतद् भावितं, तमोऽनन्यदिति भाव्यम् / तदपि यथा च प्रकाशादभिन्ना प्रवृत्तिस्तथा नियमोऽप्यभिन्नः प्रकाशात् / प्रकाशानतिरिक्तताप्रदर्शनार्थं नियमलक्षणमाह-प्रकाशवात्मत्वप्रतिलम्भ एव हि तन्नियमः प्रकाशस्य खात्मा। प्रकाशनमेव तद्भावः प्रकाशस्वात्मत्वं तत्प्रतिलम्भ एव हि तदात्मलाभ एव हि तन्नियमः, रूपस्य रसस्य वा प्रका[श]म्य(स्य) स्वरूपव्यक्तिनियमः / न हि छिन्नाभ्रनभसीव निराश्रयः कश्चिनियमोऽस्ति / तत्पर्यायः कथं नियमः प्रकाशानन्यता, प्रकाशस्वरूपमात्रमेतन्नियमलक्षणं निरुध्य(ह्य)ते, नान्यः प्रकाशाद् भिन्नो नियम इति, तत्र दोषदर्शनात् / को दोषः ? इति चेदुच्यते--- भिन्नात्मकतायां प्रकाशानियमस्य, [ सत्त्वात् तमसश्च सत्त्वं] सत्त्वमेव न स्यात् , प्रकाशो वा प्रकाश एव न स्यादिति वर्तते। तथा