________________ प्रकाश-नियमादि-भेदाभेदविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 239 अनियतत्वात् गुणान्तररूपापत्तिरहितस्य सत्त्वस्य प्रकाशस्य च गुणान्तरात्मनो गुणान्तरात्मापत्तिरहितत्वादित्यर्थः / शब्दो हि शब्दतया प्रकाशमानो रूपाद्यात्मव्यावृत्तस्वरूपेण नियत एव प्रकाशतेऽन्यथा प्रकाशनाभावाद् व्यक्तभावादित्यर्थः / दृष्टान्तौ यथासंख्यं रजोवत् प्रवृत्तिवत् / यथा प्रकाशात्मना अनियतत्वाद् रजः सत्त्वं न भवति, प्रवृत्तिश्च प्रकाशो न भवति, तथा सत्त्वं सत्त्वं न स्यात् , प्रकाशः प्रकाशो न स्यादिति न केवलं गुणान्तररूपापत्तिरहित[स्य स्वात्माप्रति] लम्भ एव / किं तर्हि ? मूलत एव सत्त्वमेव तद्वा प्रकाश इति न स्यादित्यस्तित्वमेघ निराक्रियते, अनियतत्वात् / यदि तत् स्वत एवानियतं ततो नास्ति तत् सत्त्वं वन्ध्यापुत्रवत् / न च तत् प्रकाशात्मकं पुरुषवदिति पूर्ववद् यथासंख्यं दृष्टान्तौ / _इतर आह-नन्वित्यादि, यावदनन्यथावृत्तता / नन्वित्यनुज्ञापने / प्रकाशात्मकत्वादेव प्रदीपवत् सत्त्वस्य सर्वतो नियतानियतप्रकाशस्य महदहङ्कारादिस्पर्शरूपादिपिण्डशिवकापूर्वोत्तरव्यक्त्यभिमुखतायां सत्यां प्रकाशनस्य सति नियामके कुड्यादावग्नेरिव कुड्यादिना वरणेन नियमत्वम् ,नाव इव वा सर्वदिग्गमनरोधिना लम्बनपापाणेन गुरुणेव द्विधापि प्रदेशान्तरप्राप्तिरोधिना तमसा प्रकाशस्य दृष्टिनियम्यत्ववन्नियम्यत्वं तच्चानन्यथाप्रवृत्ता एवमेव ते प्रवर्तितव्यं नातोऽन्यथेति दृष्टत्वाच्चानपह्नवनीयो भेदः, नियम्य-नियामकयोस्तस्मादन्यो नियमः(मात्) प्रकाशा(शो), नियमः प्रकाशादिति / अत्रोच्यते-यद्यनियतोऽसावसंस्तहि, यदि स्वयमेवानियतःप्रकाशोऽसंस्तीसावनियतत्वाद् वान्ध्येयवत् / एवं हीत्यादि, एतस्यैव व्याख्यानमनिष्टापादनद्वारेण कार्यकारणेऽस्तीति / एतद्दर्शनमेवमेव घटते यदि तत्तत्र नियतमिति / किमुक्तं भवति ? अनन्यथावृत्तीत्युक्तं भवति / यथा वर्तितव्यं तथैव वर्तते, नान्यथा, खात्मनैव च वर्तते, नान्येन केनचिद् वय॑ते; तच्चानन्यथा वृत्तिरस्य तदिदमनन्यथावृत्ति कार्य कारणे सदिति शक्यमभ्युपगन्तुम् / किं कारणम् ? तत्र सन्निधिर्वर्ततेः सत्तार्थत्वात् तत्र कारणे सन्निध्यर्थो वर्ततिः सत्तार्थः, सन्नियतो वर्तत इति / 'अस्ति-भवति-पद्यति-विद्यति-वर्ततयः सनिपातषष्ठाः सत्तार्थाः' इत्यत्र वर्तते / सन्निधिभवनार्थवाचित्वाद् वर्तते नियतः सन्निहितोऽस्तीत्यर्थः / . इतर आह- नाधिक्येनायतत्वात् , निशब्दस्याधिकार्थत्वादधिको यमो नियमः, सोऽत्र विवक्षितो, न सन्निधिमात्रवृत्तिः। कोऽसावधिको यमः ? तमोऽनुग्रहाद्यः, स च नान्यथा व्यक्तिरूपता तमसाऽनुगृहीतस्य [सत्त्वस्य शब्दादिरूपेण रूपान्तरनिवृत्याऽनन्यथावृत्तिरूपता / शब्दोऽयं, न रसो न रूपं नाकाशादिति /