________________ 240 नयचक्रम् / [विध्युभयारः तस्मात् सत्त्वं तमोऽनुगृहीतं तथा प्रकाशते न स्वत एव, तस्मादन्यः प्रकाशान्नियम इति / एतच्चासत् / तमसोऽपि सत्त्ववत् पृथगपरिसमाप्तरूपत्वात् सत्त्वप्रकाशननियमना[त् ] स्वयं सत्त्वप्रकाशनाकासित्वात् तमस्त्वन्मतेनापरिसमाप्तमेव तमो नियमनापेक्षप्रकाशात्मकसत्त्ववत् / तद्व्याख्यानम्-तमसोऽपि हीत्यादि / तमः सत्त्वप्रकाशरूपव्यक्तिं सत्त्वप्रकाशनप्रतिलब्धतया नियतिः(ति) कुर्यात् , नाप्रकाशिततया नियतिव्यक्तिः(म्)। किं कारणम् ? तस्य तथाव्यक्तेः सत्वप्रकाशनप्रतिलभ्यत्वात् / यस्मात् तथाप्रकाशनं व्यक्तिरिति / इतिशब्दस्य हेत्वर्थत्वात् / नियमनयोग्यतया हि तमसः प्रकाशन सत्त्वस्य व्यक्तिः। सा च प्रकाशात्मकसत्त्वानुग्रहाद् भवति, नान्यथेति / सत्त्वाप्रकाशिततमोनियमनापरिसमाप्तरूपत्वं प्रकाशाननुग्रहे सत्यनियतत्वात् / न च स्वयमनियतं नियमयितुमन्यं समर्थ बन्ध्यापुत्रवत् इत्यत आहअनियतं च कथमन्यनियमने प्रवर्ततेत्यादिरत उत्तरः प्रागतीतग्रन्थातिदेशः। एवं तु नानयोरित्यादिपूर्वोत्तरपक्षप्रपश्चात्मको यावन्न परिणामस्य तत्रैवोक्तत्वादिति / तद्यथा-- एवं तु नानयोरितरेतरानुग्राहिता उत्थाप्यसाहायकशक्तित्वाद् वाताहतनौद्वयवत् , ग्लानशिविकावाहकवत् असम्पूर्णशक्तिता वा प्रकर्षः अनियत इत्यर्थः / इति कारणेन(णते)व न स्यादसम्पूर्णशक्तित्वादुपहतबीजवत् / असत्कारणादिभ्यश्चान्यतो न तत्स्वरूपप्रकर्षः / यदा च सुदूरमपि गत्वा प्रागवृत्तेरसत्कार्यत्वं मा भूदिति / प्रकर्षः परिणामादेव, तदा परिणामस्यान्यत्र वृत्तस्यापरिणामकत्वात् / युवत्ववन्मात्रवृत्तित्वमेव / नान्यत्र वृत्तोऽन्यदन्यथा करोति परिणामित्वात् / एवं तर्हि पूर्वबदुदाहरणादेवाप्रवृत्त्यात्मकत्वं सुखस्यानियतरूपेणाप्रवृत्त्यात्मकत्वामित्यर्थः / को हि विशेषः तमःप्रवर्तनाद् ऋते क्षीर-दधिपरिणामकालवत् पूर्व न प्रवृत्तं पश्चाच्च ? प्रवृत्तमिति न,परिणामस्य तत्रैवोक्तस्वादित्येष ग्रन्थः समानोऽत्रापि / अत्र(त) उत्तरस्तु ग्रन्थोऽर्थतः समानगमनिकोऽपि विशेष्य लिख्यते भावनार्थ विशेषणातुल्यत्वात् / तद्यथा- प्रकाशात्मैव तु नियम इतरथा स प्रकाशो न संस्तथानियतत्वात् तथा अभूतत्वादित्यस्यैवार्थकथनं प्राक्तनव्याख्यानवत् / रूपादिस्वरूपनियतार्थप्रकाशनात् प्रकाशः स्यान्नान्यथेति त्वन्मतेन, घट-पुरुषवत् / यत्तथा अनियतं तन्न प्रकाशो यथा घटः पुरुषे न नियतो घटे च पुरुषः / यो यः प्रकाशः, स तथा नियत एवः यथा रूप-रसादि / लोकप्रतीतोदाहरणमेव घटपटवद् वेति / एवं तावत् प्रकाशस्य रूपान्तरनिवृत्तिरूपं नियममन्तरेण प्रकाशनाभावप्रदर्शनानियमात्मकत्वमुक्तम् / इदानीं य एव नियमः स एवं प्रकाश इति तयोरनन्यत्वापादनम्-तथानियतत्वात् / तेन प्रकारेण नियत. १°भ भ / २°म°भ।