________________ सत्त्व-रजस्तमो-नियामकत्वविचारः] न्यायागमानुसारिण्यलकृतम् / 241 त्वात् / रूप-रस]प्रकाशनरूपेण रसाद्यात्मनिवृत्त्या प्रकाशस्य नियतत्वात् , तथा प्रवृत्तत्वादित्यस्यैवार्थकथनं वृत्ति-नियति-व्यक्तीनामैकार्थ्याद् घट-घटस्वात्मवत् / यत् तथा नियतं, यत् तथा वृत्तं, यत् तथा व्यक्तं तदेव तत्। यथा घट एव घटस्वात्मा / यत् पुनस्तदेव न भवति, न तत् तथा नियतं, तथा वृत्तं, तथा व्यक्तं वा / यथा पुरुषः / नियम्य-नियामकत्वान्नौलम्बनपाषाणवद् यथा नौः प्रवर्तमानान्नियम्यते लम्बनपाषाणेन नियामकेन; तयोश्चान्यत्वमेवं सत्त्व-तमसोरिति / एतच्च न, तदात्मन एव, तथानियतत्वात् / तस्यैवात्मा स एव वाऽऽत्मा स तदात्मा तस्यैव प्रकाशात्मनो नियतत्वात् , तसादेव तेनैव वाऽऽत्मना प्रकाशात्मन एव नियतत्वात् सत्त्व-तमसोर्भेदाभावात् नौलम्बनपाषाणवद् भेदसाधाभावादयुक्तो दृष्टान्त इति वक्ष्यते / तद्व्याख्यानार्थमाह-सन्निधिमात्रात् पूर्ववदनियमनात् / इह तमः सन्निहितमपि प्राक् सन्निधिमात्रादेवानियामकं, स्वयमनियतत्वात् , सत्त्वाधीननियतित्वात् , किन्तु नियम्यमनियमात् / कस्तर्हि नियामकः ? उच्यते-य एवासौ सत्त्वस्यात्मप्रकाशः स नियामकः / कथमिति चेदुच्यते- यस्मात् तथानियम्यव्यक्तिस्वरूपस्तेन प्रकारेण शब्दादिनियति(तं) नियम्य व्यञ्जनस्वरूपः, स एव प्रकाश एव / कुतः / तथा नियमविधिः-तेन हि प्रकारेण नियमस्य विधिः। शब्दस्वरूपेण प्रकाशमानस्य शब्दस्य रूपाद्यनात्मनो नियता प्रकाशमानता नियमविधिः। तस्मात् हेतोः प्रकाश एव नियमः / दृष्टान्त इतरकर्तृवत् , कुम्भकारादिवत् / यथा मृद्र्व्यं पिण्ड-शिवकादिभावेनाभिव्यज्यमानं तथा तथा प्रकाशयता का कुम्भकारेण नियमकारिणा निर्वय॑ते नियम्यते नियते रूपेऽवस्थाप्यते; नाप्रकाशमानमप्रवर्तमानं च सत्कार्यवादाभ्युपगमात् , असदकरणादिहेतुसामर्थ्याच्च / तस्मात् स कर्ता प्रकाशस्थानीयो नियामकः पिण्ड-शिवकादेर्नियम(म्य)स्य तथा प्रकाशस्तमसः / कुतः ? तमोनियमात्मरूपापादनात् / सत्त्वेनैव हि तथा प्रकाशमानेन तमसो नियमरूपमाप(पा)द्यते, मृद इव / तथा प्रकाशयता को कुम्भकारेण तदात्मलाभहेतुत्वात् / ततस्त्वदभिमतनियामकत्वविपर्ययापत्तिस्तमसो नियम्यत्वात् , सत्त्वाधीननियतित्वात् , सत्त्वस्यैव नियामकत्वात् पक्षधर्मविपरीतता सत्त्वापाद्यनियमात्म] रूपता प्रसक्ता / सत्त्वाप्रकाशिते नियमाभावात् / सत्त्वापादितं हि तमसो नियमात्मरूपं, तस्मात् तमोनियमात्मरूपापादनात् सत्त्वं नियामकम् / इतरतथारूपापादनात् तमोवत् / तमोऽपि हि इत्यादि, तमसोऽपि हि नियामकत्वमेव युज्यते त्वन्मते / यदीतरयोः सत्त्व-रजसोरात्मरूपापादनं कुर्यादन्यथा इतरखरूपापादनाद् ऋते तमः किमन्यत् करोति / तयोहि सत्त्व-रजसोरात्मरूपापादनमेवात्मरूपमापाद[य]नियामकमित्युच्यते / म.च.३१