________________ 242 नयचक्रम्। [विध्युभयारः यथा तमः पूर्व प्रकाश-प्रवृत्त्यात्मकाभ्यामनियतयाः सत्त्व-रजसोस्तथा नियमनानियामकम् / एवं सत्त्वमपि / इतरतथानियमात्मरूपापादनान्नियामकमस्तु को दोषः ? / एवं च नौवत् तम एवापद्यते / एवं च सत्त्वस्यैवोक्तविधिना नियामकत्वान्नौस्थानीयं नियम्यं तम एव स्यान्न नियामकम् / लम्बनपाषाणस्थानीयं सत्त्वमेव नियामकं, न नियम्यं स्यात् / किं कारणम् ? तथाप्रकाशस्य नियम्यत्वात् / यस्मात् तेनोक्तप्रकारेण प्रकाशेन नियम्यत्वं मोहस्य, तस्मात् तमसः सत्त्वेन नियम्यत्वादित्यर्थः / तस्मात् प्रकाशाप्रकाशिते तमसो नियत्य(म्य)भावात् / तमसः प्रकाशेन तथा नियम्यत्वात् तदात्मन एव [तथा]नियतत्वादिति साधूक्तम् / एवं तावत् सत्त्व-तमसोर्भेदमभ्युपेत्य विपर्ययापत्त्या नियम्य-नियामकत्वादित्यस्य हेतोरसिद्धिरुक्ता / नैव वा सत्त्वव्यतिरिक्तं तमोऽभ्युपेम इति / अत आह-तथा प्रकाशानतिरिक्ततत्त्वरूपत्वाद् वा नियमस्य / शब्दप्रकारेण रूपादिप्रकारेण च यः प्रकाशस्तदनतिरिक्ततत्त्वरूपत्वान्नियमस्याभिव्यक्तेः कुतोऽनौलम्बनपाषाणभेदसाधर्म्यम् ? न नौरनौः, कः ? लम्बनपाषाणः, तस्य नावो भेदः, तत्साधम्येमनोलम्बनपाषाणभेदसाधम्यम्, तत्तु कुतः सत्त्व-तमसोर्भदसाधय ? भेदाभावादित्यर्थः। ततो दृष्टान्त-दार्शन्तिकयोः साधाभावादयुक्तमिति वैषम्यं दर्शयति- भेदे सति लम्बनपाषाणो नौविलक्षणो नावं प्रवर्तमानां निरुणद्धीति युज्यते, न तु तथा प्रकाशातिरिक्ततत्त्वरूपो मोहो नियामकोऽस्त्येतयोः शब्दाद्याविर्भावमात्रफलत्वादतो न युज्यते / न तद्रूपत्वमतदृत्तित्वादिति चेत् स्यान्मतम्- प्रकाशनमात्रं सत्त्वस्य वृत्तिर्नियमनं तु तमसः, तस्मात् सत्त्वस्यानियमना दतद्वृत्तित्वाद् वृत्तिभेदाच न निय मनं सत्त्वस्य, तमसश्च न प्रकाशनमित्यस्ति भेद इति / एतच्च न, 'तमःस्वनियमवत् तदात्मन एव नियतत्वात्' / यथा तमसः स्वो नियमः प्रागवृत्तः, पश्चात् स्वत एव तमःस्वात्मनः प्रवर्तमानस्तमसो विना अभूतत्वात् , तदत्यागेन वृत्तेस्तदधीनत्वात् तद्रूप एव तदात्मन एव प्रवृत्तत्वात् ; तथा सत्त्व-प्रकाश-प्रवृत्त्यनतिरिक्ततत्वरूपस्तमोनियमः सत्त्वाव्यतिरिक्तः प्रकाशाधीनत्वात् / तदविनाभावात् तदपरित्यागेन [प्रवृत्तेस्तदात्मन एव] प्रवृत्तत्वादिति / किं चान्यत्- अन्यथा सत्त्वमित्यादि / यदि स्वत एव नियमो न स्यात् , ततोऽन्यथा सत्त्वं सत्त्वमेव, प्रकाशो वा प्रकाश एव न स्यात् ; तथाऽनियतत्वाद् रजोवत् प्रवृत्तिवत् / मूलत एव तद्वा प्रकाश इति न स्यादनियतत्वाद् , वन्ध्यापुत्रवत् , पुरुषवदित्युक्तत्वादिति / तथाऽन्यथा तु नियत्यभावात् प्रकाशाप्रकाशिते तमसो नियत्यभावादनियतस्य चाभावात् प्रकाश एव नियम इति / स्यान्मतम्- प्रकर्षण काशनं प्रकाशनमित्यादि, यावत् प्रवृत्तिवदिति प्रासङ्गिक