________________ सत्त्व-रजस्तमोभेदाभेदविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 243 तदेव चोद्यं, तत्रोत्तरमपि सत्त्वस्यापि तमोवदपरिसमाप्तरूपत्वादित्याद्यक्षरविपर्यासेन यथायोगाक्षरोपन्यासं यावदुत्थाप्यसाहायकशक्तित्वाद् वाताहतनोद्वयवत् , ग्लानशिविकावाहकवत् , यावच्चोपहतबीजवदिति वाच्यम् / तस्मादिदं व्याख्यातार्थ नियामकाभावस्य चापयोप्तत्वेनोक्तत्वात् / एवं चैक एव विनिद्रावस्थापुरुषत्ववदित्यादि, यावद् भङ्गचक्रावर्तनमिति प्रागुक्तं भङ्गचक्रमावत्यै व्याख्येयमिति / तदेवातिदिशति समानत्वात्-तत्र तु प्रवृत्तिरेव प्रधानं, प्रवृत्त्यापत्तिरूपनिरूप्यत्वात् , प्रवृत्तिस्वात्मवदिति प्रवृत्तिमात्रत्वे प्रधानभङ्गचक्रकमावर्तितम् , इह तु प्रवृत्तिस्थाने नियमं कृत्वा, प्रधानस्थाने प्रधानमेव च कृत्वा भङ्गचक्रावर्तनं तद्वदेव कार्यम् / पुनश्च नियमः स्वात्मेव वा त्रीण्यपीति पुरुषावस्थावद् भङ्गचक्रावर्तनं द्वितीयं लिखितं यथा तथाऽत्र प्रवृत्तिगुण्यवनियमत्रैगुण्यं लिखितं द्रष्टव्यमिति / भङ्गग्रन्थपरिवृत्तिपरिमाणमप्याह- यावत् सुखादनन्यद् दुःखमितीय दूरम् / अत्र तु विशेषः / सुखादनन्यो मोह इति प्रतिज्ञा, हेतुरनात्मत्वेऽशोषाद्यात्मकत्वादिति / दृष्टान्तः सुखस्वात्मवदिति / इत्यादि साक्षेपपरिहारं पूर्ववदिति / अवधारणेन चोक्तंसाधनान्तरापक्षिप्तान्यत्वो विपक्षाभावः सूच्यत इत्यादि सर्वातीतव्याख्यानप्रपञ्चातिदेशः तद्व्याख्यानोपायदिग्मात्रप्रदर्शनं चैतत् प्रवृत्तिस्थाने नियमं कृत्वेति / न चापीदमेकत एव तत्त्वमित्यादीत्युत्तरस्य विकल्पोत्थापनग्रन्थस्य सम्बन्धः। सुखात् दुःख-मोहयोर[न]न्यत्वं तत्त्वमुक्तम् , तत्त्वानेकतः सामान्य-विशेषभावात् / सामान्य-विशेषभेदभावाद् यथा वृक्ष इति सामान्यम् , कदम्ब इति विशेषः / यथाऽत्र कदम्बो नियमाद् वृक्षो वृक्षस्तु स्यात् कदम्बोऽन्यो वेत्यनेकतस्तत्त्वम् / तथा यदि सामान्य-विशेषभावः स्यात् , स्यादेकत एव तत्त्वम्, न तु तथेह सुख-दुःख-मोहानां सामान्य-विशेषभावोऽस्तीति / किन्तूभयतोऽनन्यत्वादभिन्नत्वादेकत्वादित्यादिना सत्त्व-रजस्तमसामेकत्वापादनार्थ पूर्ववत् सर्वमेव प्रक्रमभेदैः स एव तथैव ग्रन्थः प्रवृत्त्या प्रकाशविशेषितया मोहविशेषितया नेयस्तथा च भाष्य एव सुलिखितत्वान्न वित्रियते / सन्निहितापत्तिभवन-सत्तार्थत्वमयथार्थ स्यादिति / अत्र तु विशेषः- आपत्तिभवनं सन्निधिभवनाविनाभावे युज्यते, नान्यथा; यदि तद्रूपादि बीजे न सन्निहितं ततोऽङ्करस्यासत्त्वाद्यापत्तिः स्यात् / सत् कार्य कारणे चेति द्वैविध्यं च भवनस्यैवमेव युज्येत आपत्त्यनापत्तिभेदाभेदादिति / शेषं पूर्ववत् / सत्त्वेन तमसा च सह भावनायां कृतायां पुनश्च तथैव तमसोऽपि सत्त्वेन रजसा [च] तद्वदेव भावनाग्रन्थो निरवशेषो लिखित 1 एर्निरू भ / 2 वाद् प। 3 सहितं भ। 4 रविशे° प।