________________ 244 नयचक्रम् / [विध्युभयारः आचार्येणैवेति न विवृण्महे / स एवानुसतव्यः। सर्वत्र च मेदचोयेषु / प्रवर्त्य-प्रवर्तकत्वात् पल्लव-पवनवन्नेति चेन्न तदात्मन एवेत्यादि, तदेव सत्त्व-रजःसंयोगेऽपि प्रकाशार्थ(र्थि)-प्रकाशभेदा[ त्] नर्तकी-नर्तकाचार्यवन्नेति चेन्न / तया(दा)त्मन एवेत्यादि / सत्त्व-रजः-संयोगे सत्त्व-तमःसंयोगे च नौलम्बनपाषाणवन्नेति चेन तदात्मन एवेत्यादि / सत्त्व-तमासंयोगे रजस्तमः-संयोगे च तत्र प्रकाशनप्रवर्तन-नियम[न]वचनानि च यथोपपत्ति योज्यानि / कुतोऽपल्लव-पवनभेदसाधHम् ?, कुतोऽनर्तकी-नर्तकाचार्यभेदसाधर्म्यम् ?, कुतोऽनौ-लम्बनपाषाणभेदसाधय॑म् ? इति चोपनयेषु द्वयं द्वयं द्वयोर्द्वयोर्गुणयोः सम्भवित्वाच्चोदयित्वा परिहार्यमिति / एवं [च] तावत् सुख-दुःख-मोहानां प्रकाश-प्रवृत्ति-नियमात्मकानामनन्यत्वात् 'एकात्मकैककारणपूर्वकत्वम् इति साध्वभ्यधामेति / एवं त्वनभ्युपगम इदं निरूप्यमित्यादि / एवमेकात्मकैककारणानभ्युपगमे सांख्यैरिदं निरूप्यं कतमत् ? यत्तद्भिन्नात्मकत्वं परिगृह्य प्रयुक्त कार्ये कारणमपीत्यभिहितम्- 'अस्ति प्रधानं भेदानां कार्य-कारणभावादाध्यात्मिकानां वाक्या(बाह्या)नां च भेदानां कार्य-कारणभावो दृष्टः / आध्यात्मिकानां कार्यात्मकानां वक्ष्यामः सत्त्व-रजस्तमांसि त्रीणि शब्दाद्यात्मभिर्व्यवतिष्ठमानानि परस्परार्थ कुर्वन्ति' इत्येवमादि / एतत् कथं निरूप्यते ? वक्ष्यमाणेषु विचारविकल्पेषु यथा यथोच्यते, तथा तथाऽनुपपत्तिरि(रे)वेति / इतिशब्द[स्य] हेत्वर्थत्वान्निरूपणाभाव एवेत्यभिप्रायः / तद्विचारोदेशार्थ साधनमाह अनेकात्मकत्वकारणकल्पना असद्वाद एव सम्भाव्यविकल्पानुपपन्नार्थत्वात् / अनुपपन्नसम्भाव्यविकल्पार्थत्वादित्यर्थः / येऽत्र सम्भाव्यन्ते विकल्पास्तेऽनुपपन्नार्था इति वक्ष्यति; तस्मादयमसद्वाद एव / दृष्टान्तः- तदुक्तसत्यत्वानुपपन्नार्थ-सर्वोक्तानृतत्वपक्षवत् / तेनेवोक्तस्तदुक्तः सर्वमनृतमिति पक्षः, स एवोक्तस्तदुक्तो वा, असौ सत्यश्चेन्न तर्हि सर्वमुक्तमनृतम् , अस्य सत्यत्वात् , पू(सर्वोक्तान्तःपातित्वाच्च / अथासत्यमिदम् , न तर्हि सर्वस्योक्तस्सा[नृतत्वमनेना] नृतेन प्रतिपाद्यतेऽस्यानृतस्याप्रमाणत्वादित्युभयथाऽप्यसद्वादस्तृतीयविकल्पाभावाच / तथेयमपि त्रिगुणमेकं कारणमित्यनेकात्मकैककारणकल्पना. [s]सद्वाद इति / तत् पुनः कतमद् वचनमिति ? तत् प्रदर्शयन्नाह___ यदुच्यते - सत्त्व-रजस्तमासीत्युद्देशवाक्यं यावत् परस्परार्थ कुर्वन्तीति निर्देशवाक्यं च सत्त्वं शब्दकार्यमित्यादि यावत् प्रवृत्तिं प्रख्यापयतीति / एतदसद्वादधर्मेण पक्षीकृतं वाक्यम् / अत्र च द्वयं सम्भाव्यते तृतीयाभावात् , तदर्शयति 1 प्रत्याख्याप।