________________ नयचक्रम् / [विध्युभवारः वदेव तत्त्वापत्तिः। अथ सर्वसर्वात्मकत्वादविकल्पशब्दार्थत्वाल्लक्षणमेव, कथं तर्हि 'त्रिगुणवर्णनमनेकात्मकसर्वगतत्वभावगं च / तंद्यस्यैकैकं प्रत्येकं गुणो न भवति ततोऽस्य कुतोऽसत्वात् तदेकत्वापत्त्यात्मिका अविकल्परूपता? न हि पृथगवृत्ते रूपे मेचकात्मके भवतः / असदेव तु तदेवमगुणत्वे अत्यात्मकत्वात् खपुष्पवत् / त्वदुतेरेव च तल्लक्ष्यं नार्थो न वस्तु, अलक्षणत्वात् , खपुष्पवत् / अयेत इतश्चान्यतरोपादानपरित्यागायुक्तत्वात् तल्लक्षणाभावादस्य दतै(तदै)व तथा तत्रैव स्यात् प्रवृत्त्या सहैकत्वान्यत्वे प्रत्यवचनीयत्वात् / न तदेकं नान्यद् वाच्यं निरूपाख्यत्वात् / यत् तु सत् तत् प्रवृत्त्या सहैकत्वान्यत्वे प्रति वचनीयम् , यथा प्रवृत्तिस्वात्मा प्रकाशनियमात्मानो वाऽन्यतरोपग्राहपरित्यागायुक्तत्वादपि च / ननु रूपयुक्तत्व-वाच्यत्वाभ्युपगम एव पितृ-पुत्रत्ववत् प्रवृत्तिस्वात्मैव च त्रीणीति पुरुषावस्थावदिति / यथैव हि यदि पुरुषस्वात्मावस्थाः / न तर्हि ता(नाना)ता अनवस्थत्वात् , खपुष्पवदिति / तथैव यदि प्रधानस्वात्मा गुणा न तर्हि प्रधानं गुणत्वात् खपुष्पवत् / अभ्युपगमेऽपि तु प्रधानस्य गुणानां त्रयाणामप्यैक्यं प्रधानस्वात्मत्वात् प्रधानवदिति सर्वत्र सम्भाव्याभावादेव सर्वा(व)व्यापिता / प्रवृत्तिगुण एव हि प्रकाशगुणः प्रवृत्तिस्वात्मत्वात् प्रवृत्तिवत् / एवमितरोऽपि प्रकाश एव प्रवृत्तिः, प्रकाशस्वात्मत्वात् प्रकाशवत् / एवमितरोऽपि नियम एव च प्रवृत्तिनियमस्वात्मत्वानियमवत् / एवमितरोऽपि य एव चान्यो गुणः स एवेतरोऽपि एकखात्मत्वात् स इ(ए)व प्रकृतिरेवेदं सर्वमित्यतिदेशाभावो भेदाभावात् / उपवर्णनभिन्नरूपव्यतिकर-सङ्कराभ्यां त्वेवमतथात्वमेषामस्य च / ततः स्वात्मत्वादिति प्रधानगुणव्यवस्थाभाव एव उक्तवद् वा व्यवस्थानुमती प्रधानातिदेशस्त्याज्यः। तदत्यागे यदर्थमयमतिदेशो द्वौ नैकान्तार्थस्तस्यैवासिद्धिः। यत्तदेकमेव सम्भाव्यते प्रधानं तस्याप्यनेकतैवैवमापद्यते / यत्स्वरूपाव्यतिरिक्तलक्षणा गुणा विना भेदेनोच्यन्ते / तत्प्रधानमपि प्रधानेनाभिव्याप्तत्वात् अनवस्थितैकत्वतत्त्वप्रतिष्ठं प्रधानमित्यतिदेश्यं स्यात् , प्रधानस्वात्मत्वाद् गुणवत् / प्रत्यक्षार्थदंविषयतायां वा व्यक्तमूर्तानित्यादिरूपार्थप्रधानपरमा. र्थतागुणस्त्वन्यत्वानेकत्व एव प्रधानवश्यमन्ये ते तस्मात् तद्रूपापत्त्यनिष्टत्वाद् गुणान्तरवत् / यतो गुणस्वात्मत्वमस्य नेष्यते, प्रधानातिदेशात् तु पुनः स्व विषयकृतभेदद्वारानभ्युपगमे कस्यचित् कथंचिदप्यन्यस्यानुपपत्तौ तेऽप्यन्यत्वापत्तिवत् पृथक् पृथक् प्रधानम् / अथ प्रधानलक्षणापि प्रवृत्तिर्न प्रधान, प्रधानमपि तर्हि न प्रधानं प्रधानलक्षणत्वात् प्रवृत्तिवत् / एवं शेषावपीति, प्रधानाभाव एंव कुतोऽस्य सर्वगतता? तदभाव एव त्वया प्राय एवं प्रतिपाद्यते तदा सत्वाभिमत 1 तृप / 2 य° भ / 3 °ध्या भ / 4 °ध्य भ / 5 °स्या भ / 6 वादपि च ननुरूप युक्तवाभ। 7 वा भ। ८°णत्वात् भ। ९°शाभेदाभ। १०°दनभ। ११व एवं भ।