________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलकृतम् / 233 त्वात् तद्रूपैव तदात्मन एव प्रवृत्तत्वात् / तथा सत्त्वप्रकाशप्रवृत्त्यनतिरिक्ततत्त्वरूपा रजःप्रवृत्तिर्नान्या प्रकाशाधीनत्वात् तदविनाभावात् तदपरित्यागेन वृत्तेस्तदात्मन एव प्रवृत्तत्वादिति / किं चान्यत् , अन्यथा हि न प्रकाशेतेत्युक्तत्वादुक्तं प्राक् सत्त्वं न प्रकाशाभावप्रवृत्तत्वात् पूर्ववत् पुरुषवदग्निप्रकाशवदप्रवृत्तस्वात्मत्वाद्वान्ये(न्ध्ये)यवदिति / तथैवान्यथा तु प्रवृत्त्यभावात् प्रकाशाप्रकाशिते रजसोऽप्रवृत्तेस्तस्माद् रजसोऽप्यन्यथावृत्त्यभावात प्रकाश एव प्रवृत्तिरिति / स्यान्मतम् , प्रकर्षण काशनं प्रकाशनमित्यादि, तदेव यावत् प्रवृत्तिवदिति प्रासङ्गिकम् / तत्रापि च सत्त्वस्यापि रजोवदपरिसमाप्तत्वादित्याद्यक्षरपरिवर्तन यथायोगं यावदुत्थाप्यसाहायकशक्तित्वाद् वाताहतनौद्वयवत् , ग्लानशिविकावाहकवत् , यावच्चोपहतबीजवदिति वाच्यम् / तस्मादिदं व्याख्याना(ता)) प्रवर्तकाभावस्य चापर्याप्तत्वेनोक्तत्वादित्येवं चैकैविनिद्रावस्थापुरुषत्ववत् प्रवृत्तिप्रधानमिति / तन्मात्रमेव तत् / एवं च कृत्वा विनिद्रावस्थायाः पुरुषत्ववत् प्रवृत्तेरेव प्रधानत्वमिति / तन्मात्रमेव तत्प्रधानं प्रवृत्तिमात्रमेव / किं कारणम् ? प्रवृत्त्यापत्तिरूपनिरूप्यत्वात् प्रवृत्तिखात्मवदित्यादि भङ्गचक्रावर्तनमिति / विनिद्रावस्थापुरुषत्वापादानग्रन्थमर्थसादृश्यादतिदिशति / तद्यथा- यथा विनिद्रावस्थैकलक्षण एव पुरुष आत्यन्तिकनिद्राविगमनरूपनिरूप्यत्वात विनिद्रावस्थास्वात्मवदिति / तथा प्रवृत्त्येकलक्षणमेव प्रधानं प्रवृत्त्यापत्तिरूपनिरूप(प्य)त्वात् , प्रवृत्तिस्वात्मवत् [न यसावितरात्मिका स्व[प्रवृत्तित्यागापत्तेः, तन्मात्रत्वे तु प्रधानस्यापि तद्वत् प्रकाशायनात्मकत्वादसर्वगतत्वम् / यथा प्रवृत्तिलक्षणमपि न प्रवृत्तिमात्रमेव प्रधानं सर्वत्वात् , न तु सर्वाण्येकस्यैव सर्वत्वात् / प्रवृत्तिरपि सर्वत्वात् प्रवृत्त्यात्मिका सती न प्रवृत्तिमात्रैव / प्रवृत्तिलक्षणत्वात् ] प्रधानस्वात्मवत् ततश्च प्रतिगुणं तस्याः सर्वात्मकत्वात् तृणापि सर्वगतमिति किं प्रधानकत्वमिति कल्पनया? अतल्लक्षणत्वाप्रवृत्तिगुणाभावस्ततश्च तत्तत्त्वत्रिगुणसवात्मकप्रधानाभावः / अथ प्रवृत्तिलक्षणविपरीतमपि प्रधान प्रधानमेवावधारणभेदात् / गुणस्वात्मनि गुण एव लक्षणमित्यवधारणम् / प्रधाने तु प्रवृत्तिलक्षणमेवेतरयोरप्यत्यागात् तद्ध्यनेकरूपं मेचकवत् नोक्तवदवधारणस्यान्याय्यत्वात् , प्रतिज्ञातव्याघातात् घटरूपादित्ववत् / प्रधानत्वं प्रागुक्तं गुणानाम् 'अजामेकां लोहितशुक्लकृष्णाम्' इत्यादि / इदानीं पृथक्वात्मानस्त उच्यन्ते इति तत्त्वम् / प्रधानस्य न प्रधानत्वं तेषां रूपादि घटत्वपक्षवत् / यदा च तेषामेव तत्वं ततस्तेषां तथेतरेतरात्मस्वभावादवधारणभिन्नभिन्नार्थत्वात् न तु तदेव सर्वासर्वगतत्वमिति लोक माद्वाप। 2 प्रकाशिभ। 3 तत्वादि भ / 4 °ववि मा 5 भङ्गव भ / 6 [ ]भ। 7 प्रवृत्तिरवाप। ८°तं किं भ। 9 त° प 10 रिप्प प, प्यत्या भ / ११त्वानुत° प। न० च०३०