________________ 232 नयचक्रम् / [विध्युभयारःशनरूपेण प्रवर्तमानेन रजः प्रवर्त्यते। तस्मात् स तस्यात्मप्रकाशस्तथाव्यापारणाद्रजसः प्रवर्तक इति त्वदभिमतप्रवर्तकत्वविपर्ययापत्तिरेव रजसः प्रवर्त्यत्वात् सत्त्वेन सत्याधीनप्रवृत्तित्वात् / सत्त्वस्यैव प्रवर्तकत्वात् / पक्षधर्मविपरीतता चेति / तच सत्वस्य प्रवर्तकत्वं रजःप्रवृत्त्यात्मरूपापादनात् / रजसो हि प्रवृत्तिरात्मा तदेव रूपं रजःप्रवृत्यात्मरूपं तदापाद्यते सत्त्वेन, सत्त्वाप्रकाशिते प्रवृत्त्यभावात् सत्त्वापादितं प्रवृत्त्यात्मकरूपं रजस्तस्माद्रजःप्रवृत्यात्मरूपापादनात् सर्व प्रवर्तकमितरथात्मरूपापादनात् / रजोवत् रजोऽपि हि इत्यादि, रजसोऽपि हि प्रवर्तकमित्थमेव युज्यते रजोऽपि हि / यस्मात् त्वन्मतेन प्रवर्तमानमितरयोः सत्त्वतमसोस्तथा खरूपापादनादृते किमन्यत् करोति ? प्रवृत्तिरूपमेवापादयत् प्रवर्तकमितीष्यते / नान्यथा / यद्वा यथावत् पूर्व प्रकाशनियमात्मभ्यामप्रवृत्तयोस्तयोः प्रवर्तनादेव प्रवर्तकमेवं सत्त्वमितरथा स्वरूपापादनात् प्रवर्तकमस्तु, को दोपः ? / एवं च पल्लववद्रज एवापद्यते / एवं च कृतोक्तविधिना पल्लवस्थानीयं प्रवत्र्य रज एव न प्रवर्तकं, सत्त्वमेव च प्रवर्तकं पवनस्थानीयं न प्रवत्येमित्यापन्नम् / किं कारणम् ? यथा प्रकाशस्य प्रवर्त्यत्वात् / यस्मात् तेन प्रकारेण प्रवर्त्यत्वं रजसः प्रकाशेन, तस्माद्रजसः प्रकाशेन प्रवर्त्यत्वादित्यर्थः।। उक्तं हि-'रजसः प्रवृत्तिरात्मरूपं तदापादयति प्रकाशः, प्रकाशाप्रकाशिते रजसः प्रवृत्ते रिति / तस्मात् प्रकाशन तथा प्रवत्येत्वाद्रजसः / साधूक्तं तदात्मन एव प्रवृत्तत्वादिति / एवं तावत् सत्त्वरजसोभैदमुपगम्य हेतोरसिद्धिर्विपर्ययत उक्ता / नैव वा सत्त्वव्यतिरिक्तं रजोऽप्यभ्युपेम इत्यत आह तथा प्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा प्रवृत्तेर्व्याख्यातप्रकारस्य तत्त्वमतिरिच्य नास्ति सवृत्तेः स्वरूपम् तत एव हेतोः कुतोऽपल्लवपवनभेदसाधम्येम् ?, सत्त्वरजसोरभिन्नत्वात् पल्लवपवनयोभिन्नत्वादिति दृष्टान्तदार्टान्तिकयोवैषम्यं दर्शयति-यथेहापल्लवलक्षणः पवनो लोके भिन्न इति दृष्टः, अपवनलक्षणश्च पल्लवोऽपि / युज्यते हि पल्लवव्यतिरिक्ततत्त्वरूपः पवनः पल्लवमानन् प्रवर्तयति पल्लवम् , पल्लवश्च तेनाहतः प्रवत्यते तद्व्यतिरिक्ततत्त्व इति / नतु तथा प्रकाशातिरिक्ततत्त्वरूपा प्रवृत्तिरस्त्युभयोः शब्दाद्याविर्भावमात्रफलत्वादतो वैषम्यमिति न तद्रूपत्वमतद्वृत्तित्वादिति चेत् / स्यान्मतम्-प्रकाशनमात्रं सत्त्वस्य प्रवृत्तिः, निवर्तनं तु रजसस्तस्मात् सत्त्वस्थाप्रवर्तकत्वादतद्वृत्तित्वान्न प्रवृत्तिरूपत्वम्, इत्येतच न, रजः स्वप्रवृत्तिवत् तदात्मन एव प्रवृत्तत्वात् , यथा रजसः स्वा प्रवृत्तिः प्रागवृत्तादि पश्चात् स्वत एव रजः स्वात्मनः प्रवर्तमानो रजसाविनाभूतत्वात् तदत्यागेन वृत्तेस्तदधीन म त्वे ग। 2 त° ग। 3 ख्या तत् प्रकाशस्य ग।