________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 231 अन्यथा हि को विशेषः पूर्वपरावस्थयो रजःप्रवर्तनादृते ? / तस्मात् स विशेषो रजःप्रवर्तनादेव / को दृष्टान्तः ? क्षीरदधिपरिणामकालवत् यथा क्षीरावस्थातो दधित्वपरिणामावस्था विशिष्टा, पूर्वक्षीरकाले न दध्यासीत् पश्चाभूतमिति दृष्टम् / प्रकर्षवृत्त्या च विना न भवत्ययं विशेषः / तथा सोऽपीत्येतन्न, परिणामस्य तत्रैवोक्तत्वात् / नायं विशेषः परतः सिद्ध्यति / कुतः ? परिणामस्य तत्रैव सुखेडभ्युपगम्यासाभिरुक्तत्वात् यस्मात् प्रकाशात्मैव वृत्तिः प्रकाशस्य / यः स्वात्मा स एव वृत्तिः प्रकाशस्यैव च वृत्तिः कालः स च ततो नान्यः क्षीरदधिपरिणामावस्थयोः कालाख्यत्वात् / क्षीरदधित्वापत्तिः कालभेदात् / स च परिणामः सुखस्वात्मेति नान्यत् कारणं मृग्यम् , स्वात्मन एव परिणामात्, इतरथा स प्रकाशो न स प्रकाश एव / यदि प्रवृत्तिविशेषो न स्यादन्यात्मा स्यात् , स एव प्रकाशात्मा न स्यात् तथाप्रवृत्तत्वात् , तेन प्रकाशात्मप्रकारेणाप्रवृत्तत्वात् / पोयेण तमर्थ स्फुटीकुर्वन्नाह तथा भूतत्वादित्यर्थः / दृष्टान्तो घटपटवत् / यथा / घटः पटो न भवति तेन प्रकारेणाभूतत्वात् पटोऽपि घटो न भवति, तथा स प्रकाशोऽप्रकाश एव स्यादिति विपर्ययेण तत्स्वरूपसाधनमुच्यते-यैव च प्रवृत्तिः स एव प्रकाशो नान्यः कश्चिदर्थः / इति प्रतिज्ञा / तथावृत्तत्वात् तथाप्रवृत्तत्वादित्यर्थः, घटपटस्वात्मवत् / यथा घटप्रकारेण घटात्मनैव वृत्तत्वाद् घट एव घटस्वात्मा, नान्यत् किश्चित् , तथा प्रवृत्तिरेव प्रकाश इति प्रवर्त्यप्रवर्तकत्वात् / पल्लवपवनवत्, नेति चेत् / _स्यान्मतम्-यैव प्रवृत्तिः स एव प्रकाश इत्ययुक्तम् / प्रवत्येप्रवर्तकयोभदात् / प्रवयं हि सत्त्वं प्रवर्तकं रजस्तसात् प्रवर्त्यप्रवर्तकत्वात् तयोर्भेदः पल्लवपवनवत् / यथा पल्लवपवनौ प्रवर्त्यप्रवर्तकौ परस्परतो भिन्नौ, तथा सत्त्वरजसी इत्येतच न, तदात्मन एव प्रवृत्तत्वात् , तस्य आत्मा तदात्मा तदात्मनः प्रकाशात्मन एव प्रवृत्तत्वात् / सत्त्वरजसोर्मेदासिद्धेः पल्लवपवनवद्भेदसाधामावादयुक्तोऽयं दृष्टान्त इति वक्ष्यति / तद्व्याख्यानार्थमाह-सन्निधिमात्रात् पूर्ववदप्रवर्तनात् / इह रजः सन्निहितमपि प्राक् सनिधिमात्रादेवाप्रवर्तकं स्वयमप्रवृत्तं सत्त्वाधीनप्रवृत्तित्वात् , किन्तु प्रवर्त्यमप्रवर्तनात् / कस्तहि प्रवर्तकः ? उच्यते-य एवासौ सत्त्वस्यात्मा प्रकाशः / कथम् ? इति चेदुच्यते / तथा प्रवर्त्यव्यक्तिस्वरूपस्तेन तेन प्रकारेण शब्दादिनिवर्त्य प्रकारेण प्रवर्त्य व्यक्तिस्वरूपः प्रकाशो नर्तकाचार्य इव भ्रूक्षेपणादिप्रवर्तनाभिव्यञ्जनात्मना नर्तक्याः प्रवर्तमानः प्रवर्तकः / किं कारणम् ? तथा व्यापारणात् / तेन व्यक्तिरूपेण प्रवर्तमानस्य रजसो व्यापारणात् / सत्त्वेनैव हि प्रका१ अन्यथैव ग। 2 नास्ति घ प्रती /