________________ नयचक्रम्। 230 [विध्युभयार:त्राणाय, तथा सत्वरजसी / शिविकावाहकवदितरेतरानुग्राहिता किं न भवेदिति चेत् / न, उत्थाप्यविशेषणात् / अयमेव हि दृष्टान्तो ग्लानशिबिकावाहकवत् / यथा ग्लानोऽनुत्थापितो न शक्नोति वोढुमुत्थाप्यसाहायकशक्तित्वात् तथानुत्थापिते सत्वरजसी न शक्रुतः परस्परं प्रवर्तयितुं स्वयमलब्धात्मके / इति प्रकर्षवृत्तेरभावः, प्रकर्षवृत्त्यभावात् असंपूर्णशक्तितेति / अत आह-असम्पूर्णशक्तिता वा प्रकर्ष इति / इत्थं कारणेनैव न स्यात् तस्य सत्त्वस्यासम्पूर्णशक्तित्वात् / उपहतबीजवत / यथोपहतं बीजं असम्पूर्णाङ्कुरोत्पादनशक्तित्वान्न कारणमेव सत्वमपि स्यात् / अभ्युपेत्यादिकारणत्वं साऽवस्था या सत्त्वस्य असतः कारणादितश्चान्यतो न तत्स्वरूपव्यक्तिस्तस्य सत्त्वस्य प्रकाशनस्वरूपप्रकर्षोऽन्यरजस्तमसोः पुरुषतोऽन्यतोऽन्यतो वा कुतश्चिन्न भवति / असत् कारणादिभ्यो हेतुभ्यः। तद्यथा-असत्करणाद्यथा मृदि सदेव कार्य घटादि क्रियते न खपुष्पादि, सच्च मृदः खात्मनि, यतो घटात्मस्वरूपव्यक्तिप्रकर्षों नान्यतः पुरुषादेस्तत्वादेवापत्तिकारणाद्भवति / किं तर्हि ? स्वत एव भवति / तथा सत्वस्य रूपव्यक्तिप्रकर्षों नान्यतो भवति / किं तर्हि ? स्वत एव / एवमुपादानग्रहणात् , सर्वसम्भवाभावात् / शक्तस्य शक्यकारणात् / कारणभावाच्च सत्कायेमित्येतेभ्यो हेतुभ्यः सत्त्वगुणाऽन्यनिरपेक्षस्वरूपव्यक्तिप्रकर्ष इति ग्राह्यम् / एवं सत्त्वस्य प्रकाशनं तमसा सह योज्यम् / रजसश्च प्रवर्तनमिति / किं चान्यत्-यदा च सुदूरमपीति, यावत् परिणामकत्वात् / सुदूरमपि विचारत्वेन गत्वा न प्रागवृत्तेरसत्कार्यपरिहारेण प्रकर्षः परिणामवादादृते न परिणामः प्रकर्षेण वृत्तेः कारणमेषितव्यम् / यदा चैवं तदा परिणामाभ्युपगमेन पुनरप्येतदेवापन्नम् / परिणामादात्मन्येव वर्तते युवत्ववत् / अन्यत्र वृत्तस्य परिणामस्सान्यत्वापरिणामकत्वात् / जिनदत्ते वृत्तः परिणामो न साधुदत्ते कौमारयौवनादि प्रवर्तयति कौमारं वा यौवनं वा / किं तर्हि ? जिनदत्त एव करोति / नान्यदन्यथा करोति यथा तथा न सत्वे प्रवृत्तिं कश्चिदन्यः कुर्यात् / स्वत एव प्रवर्ततेति / एवं तावदप्रवृत्तप्रवृत्तिप्रतिषेधादनग्निप्रकाशदृष्टान्तप्रसङ्गागतवादमवतार्य पूर्वववदुदाहरणे प्रसङ्गमुत्थापयिष्यन्नाह-पूर्ववदुदाहरणादेवेत्यादि, यावन्न प्रवृ. त्तमिति / नन्वेतत् त्वयाभ्युपगतं पूर्वावस्थोदाहरणादेव पाश्चात्यावस्थाविशिष्टेति / 1 'अलत्करणादुपादानग्रहणात् सर्वसम्भावाभावात् / शक्तस्य शक्यकरणात् कारणभावाच सत्कार्यम् // ' साङ्ख्यकारिका. श्लो. 9