________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 229 आह-ननु प्रकाशात्मकत्वादेवेत्यादि अप्रवृत्तत्वमसिद्धं सत्त्वस्य रजसा प्रवर्त्यत्वात् / अग्नेरिव संधुक्षणेन / यथाग्निभेस्मच्छन्नः सन्नपि न प्रकाशते / तुषचीवरेन्धनादिभिस्तु संधुक्षितः प्रकाशते, तदा प्रकाशमानोऽग्निर्भवतीति / अनोच्यते यद्यप्रवृत्तोऽग्निस्त्वस्यामवस्थायामसनेवासावतोऽस्मदिष्टमप्रकाशत्वमेव गमयति / अग्नेहि एषा काचित् प्रकाशनस्य मात्रा सैवात्मा प्रकाशनात्मप्रवृत्त्यभावात् तदासौ तसत् तद्वन्ध्यापुत्रवत् / तथा सुखमप्यप्रवृत्तत्वादिति / एवं हीत्यादि कारणे कार्यस्य सत्वमेवं हि स्यात् / यदि तत् सत्त्वं प्रकाशात्मप्रवर्ततेऽनारम्भात् / इतरथान्तरसंबन्धारभ्यत्वादसत्कार्यवाद एवायमपि स्यात् / यथाहुरसत्कार्यवादिनः-'क्रियागुणव्यपदेशाभावादसत् समवाय्यसमवायिकारणसंबन्धे सति द्रव्याणि द्रव्यान्तरमारभन्ते / येषां चाधिकृतमारम्भसामर्थ्य तैरारब्धे कार्यद्रव्ये तत्समवेतानियमत एव गुणाश्च गुणान्तरमारभन्त' इत्यारम्भवादः प्रसज्यते / स चानिष्टस्तस्मादनारम्भावर्तते सत्त्वं प्रकाशनात्मना / यसादेव हि कार्य कारणे सत् यदि तत्वं वर्तते प्रवर्तते / किं कारणम् ? अनारम्भादारम्भवादपरित्यागात् / कुतः ? वर्तते प्रवर्तत इति पर्यायकथनम् ? इति चेदुच्यते-वर्ततेरस्त्यर्थत्वाद्वर्ततेऽस्ति भवति प्रवर्तत इति पर्यायाः / इतर आह-न प्रकर्षणाप्रवृत्तत्वात् / न हि वर्ततेः प्रवर्ततिः पर्यायः / प्रकर्षार्थन प्रशब्देन विशिष्टाया वृत्तेरन्यार्थत्वात् / वर्तमानमात्रस्याविवक्षितत्वात् / प्रकृष्टवत्तिविवक्षितत्वात् / सा च रजोऽनुग्रहात् / तद्रूपव्यक्तिः / प्रकर्षण वृत्तिः / रजोऽनुगृहीतस्य सत्त्वस्य बीजस्यैवाद्यनिगृहीतस्योच्छूनाङ्कुरत्वादिवृत्तिः सृष्ट्यभिमुखी सृष्टिरेव वा सात्र विवक्षितेति।। - अत्रोच्यते-न रजसोऽपि सत्त्ववदपरिसमाप्तरूपत्वात् / तस्यां ह्यवस्थायां रजःप्रवृत्तिलभ्यप्रकाशात्मरूपव्यक्तिसत्त्ववत् / रजसोऽपि हि स्वरूपव्यक्तिरसमाप्तरूपैव सच्चात् प्रतिलभ्यत्वात् / लब्धात्मवृत्तिर्हि स्वयं सद्रजः सत्त्वे प्रकाशनप्रवर्तनाय समर्थ स्यात् , अप्रकाशितस्य सत्त्वेन तस्य स्वरूपव्यक्तिरेव नास्ति / कुतः सत्त्वप्रकाशात्मप्रवर्तना रजसः ? तथा काशनं प्रवर्तकत्वेनाभिव्यक्तिः। कासनमेव हि स्वरूपव्यक्तिः। इति प्रकाशात्मकेत्यादि / यावत् प्रवर्ततेति गतार्थम् , अप्रतिलब्धात्मनाननुग्रहात् / एवं त्वित्यादिना तयोः सत्त्वरजसोरितरेतरानुग्राहिता, उत्थाप्यसाहायकशक्तित्वात् / सहायभावः साहायकं, तस्मिंस्तेन तदेव वा शक्तिः सा उत्थाप्य ययोस्तदानीमेव ते वस्तुनी उत्थाप्यसाहायकशक्तिनी तद्भावादुत्थाप्यसाहायकशक्तित्वात् / वाताहतनौद्वयवत् / यथा जलेऽन्योन्याबद्धे द्वे नावौ नेतरेतर १न वा ग। 2 °ग्निर्न घ। 3 °सत्त्वं ग। 4 °त्मा न ग। 5 °जसा घ।