________________ 228 नयचक्रम् / [विध्युभयार:भक्तरूपा व्यवतिष्ठमानाः प्रवर्तमाना एव नाप्रवर्तमानाः, यन्न प्रवर्तते तदविभक्तवतत्त्वं सत् कदाचित् प्रविभक्तत्वेन न व्यवतिष्ठते / यथा पुरुषो यथा वा मयूराण्डकरसे हंसादिग्रीवादय इति / किं कारणम् ? द्रव्यार्थनयविकल्पानां सत्कारणवादिनामसदापत्तिप्रवृत्तेः / यतो यस्मादिहेतेषु वादेषु भाव एव यतो नियतो निशब्दलोपात् / तस्मादप्रवृत्तिलक्षणं चेन्न स्यात् सुखादिरिति / आह-ननु विभक्तरसग्रीवाद्यापत्तिवत् / प्रधानस्यैव च सापत्तिस्त्वदुक्तमयूराण्डकरसगता विभक्तग्रीवादिप्रविभागापत्तिभावदृष्टान्तसामर्थ्यादेव त्रिगुणसाम्यावस्थैकप्रधानापत्तिरेव सिध्यति, न सुखाद्यापत्तिरिति / / ___अत्रोच्यते-कस्य वा न मनोरथः? कथं भावानेकमेव कारणमनेककार्यतया विपरिवर्तमानमित्येतदर्शनं प्रतिपाद्यतेति / तस्य च कारणस्य प्रधानं पुरुषो नियतिः। शब्दब्रह्मेत्यादि संज्ञा त्वयेष्टा याऽस्तु साऽस्तु, किं नो विवादेन ? तदर्थ एव मे प्रयास एषः / कारणमयत्वं प्रतिपादयितव्य इति / एष प्रतिपादयामि त्वामेव तु न वेत्थेति गतार्थम् / यावत् कल्पनेति तदुपपाधसे अविभक्तानेकार्थकारणमेवेदं पृथिव्यादि / अविभक्तोऽनेकार्थो यसिंस्तदविभक्तानेकार्थम् , किं तत् ? कारणमस्य पृथिव्यादेः, तदविभक्तानेकार्थकारणं पृथिव्यादि न विभक्तसुखाद्यनेकार्थकैककारणपूर्वकं विभक्तवृत्तिरस्य पृथिव्यादेस्तदविभक्तवृत्तिपृथिव्यादि, सा वृत्तिः पृथिव्युदकघटादित्वापत्तिः / मयूरग्रीवादीति ग्रीवावर्हशिखण्डादिवृत्तेर्विभक्ता तदात्मानेकार्थाविभक्ताण्डकरसगतकारणैव, दध्यादिवृत्तिः क्षीरपूर्वा / आदिग्रहणात् पुरा शुक्ररसरुधिराङ्गोपाङ्गादि, व्रीह्यादि पूर्वोक्तमादिग्रहणादामपनसमातुलुङ्गादिपत्रपुष्पफलादिवृत्तिस्तदात्माविभक्तपूर्वा दृष्टान्तबाहुल्यव्यापित्वप्रदर्शनार्थमुक्तवद् वक्ष्यमाणवत् तत्कारणं प्रत्येकमभिसम्बध्यते / उक्तवद् वक्ष्यमाणत्वात् / पुरुषनियत्याद्यभिन्नककारणवदित्युक्तवत् / घट एव सर्वमिति विधिनियमा एव वक्ष्यमाणत्वात् / एवं तावत् कारणवादो यथाऽसाभिरिष्टस्तथा घटते, न यथा त्वयेष्ट इत्युक्तम् / इदानीं त्वत्पक्षे दोषा वक्ष्यन्ते-प्रकाशप्रवृत्तिनियमानां तु भिन्नात्मकतया सत्त्वं न प्रकाशेतेति प्रतिज्ञा, दिमात्रत्वेन अप्रवृत्तत्वात् पुरुषवत् / त्वयैव हि प्रधानावस्थायामप्रवृत्तसमा इतीष्यन्ते गुणाः सच्चादयः, तस्मात् सिद्धमप्रवृत्तत्वं पूर्ववद्वेति प्रधानावस्थायामिवेत्यर्थः / यथा प्रधानावस्थायामप्रवृत्तत्वान्न प्रकाशते सत्त्वम् / एवमुत्तरकालमपि / तथा रजस्तमसोः प्रवृत्तिनियमनिषेधः कार्यः / अनग्निप्रकाशवद्वा, यथाग्निरप्रवृत्तोऽप्रवृत्तिलब्धात्मानग्निः, अनग्निश्च प्रकाशते / तथा सत्त्वमलब्धप्रवृत्त्यप्रवृत्तत्वान्न प्रकाशेत / 1 ततू ग / 2 शब्दाक-ख। ३°पादितोऽसि स्वग।