Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 219 भावानामव्यभिचरितैकत्वापत्तीनां सर्वत्वं भवति / न त्वदिष्टस्यैकस्याभिन्नस्येति / तयाचष्टे-अव्यभिचरितेत्यादि यावद्भेदभावः / सर्वत्वमव्यभिचरितमनेकत्वं यस्य तदिदमव्यभिचरितानेकत्वमेकं तस्य गतिपरिणामस्तदापत्तिः सैकत्वापत्तिरनेकेन विना न भवतीति / यथा शुक्रशोणितादेरनेकस्यैकत्वापन्नस्याध्यात्मिकस्य / __ यथोक्तम्-माऊ ओयं पिऊ सुकं तं तदुभयसंसिर्ल्ड कलुसं किविसं तप्पढमयाए आहारमाहारेत्ता जीवो गब्भत्ताए वक्कमति / सत्ताहं कलहं होति सत्ताहं होइ अब्बुदं॥ अब्बुदा जायए पेसी पेसीतो जायते घणम् // (तं०वैगा०४६४) इत्यादि / मिन्नानां वैषम्येण परिणतानां शुक्रशोणितसंसृष्टाहारादीनामैक्यापत्त्या हि सर्वत्वं शरीरेन्द्रियादेस्तथा वाक्यमपि सर्वत्वम् / भूम्यम्ब्वादिव्रीहितोयदेशकालादिभिन्नार्थानां वैषम्येण विपरिणाममापनानामैक्यापत्त्या सर्वत्वं दृश्यते / नान्यथेति, हिशब्दो यस्मादर्थे / यस्मादित्थं भिन्नार्थाव्यभिचरितैकगतिः सर्वत्वं, स हि भेदभावः सर्वत्वम् / तसान्नाभिन्नस्सैकस्य सर्वत्वं कस्यचित् तस्मात् सर्वत्वाभावादयुक्तमुच्यते / 'पुरुष एवेदं सर्व'मिति / / ___किं चान्यत्-त्वदुक्तैकसर्वतायां त्वित्यादि, एकमेव सर्वमित्येतस्यामेकसर्वतायाम् , सत्त्वैकतायामिति वा पाठात् / सर्वैकपुरुषमयतायां प्रत्यक्षत एव भिन्नानेकैकसर्वताया दर्शनात् प्रत्यक्षविरोधः / ग्रहणभेदादनुमानविरोधः, ग्रहणभेदे हि न्याय्यो ग्राह्यभेद इति भेदत्वपरिणामित्वादिभावाभावे सर्वत्वापत्तिभवनाभावाद्वानुमानविरोधः / त्वदुक्तास्मदुक्तैकार्थ्याभावे भेदाभ्युपगमात् स्ववचनाभ्युपगमविरोधः / लोके घटपटादिभेदप्रतीतेलॊकविरोधः। अविकल्पशब्दार्थादित्यादि / अविकल्पः शब्दार्थ इत्यभ्युपगम्य विकल्पव्यवहाराङ्गीकरणाचाभ्युपगमविरोधः। सर्वमेकमिति विकल्पधर्मत्वेन धर्मित्वेन च तदुभयविशेषत्वाभ्यां चेष्टस्य तेनैवाभ्युपगमेन निराकरणादविकल्पशब्दार्थस्याभ्युपगतधर्मधर्मिखरूपविशेषोभयविरोधाः / असिद्धादिहेतुता च हेतोरनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वादित्यादेः प्रतिज्ञातैकपुरुषाभेदात् त्वया, असाभिश्चोक्तेन न्यायेन पुरुषाभावाद्धर्यसिद्धेराश्रयासिद्धिस्त्वन्मतेनार्थान्तराभावेऽसाधारणता, असन्मतेन विपक्ष एव भावाद्विरुद्धता, साधारणानैकान्तिकता वा / सपक्षमभ्युपगच्छतो वा ते घटाद्यव मातुरोजः पितुः शुक्र तत्तदुभयसंसृष्टं कलुषं किल्विषं तत्प्रथमतयाऽऽहारमाहार्य गर्भतया व्युत्क्रामति / सप्ताहं कललं भवति सप्ताहं भवत्यबुंदम् / अर्बुदाजायते पेशी पेशीतो जायते धनम् // गर्भोपनिषद्यप्येतस्यास्ति वर्णनम् / .. २वि घणं भवे ॥३°स्याने क-ग।
Loading... Page Navigation 1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384