________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 219 भावानामव्यभिचरितैकत्वापत्तीनां सर्वत्वं भवति / न त्वदिष्टस्यैकस्याभिन्नस्येति / तयाचष्टे-अव्यभिचरितेत्यादि यावद्भेदभावः / सर्वत्वमव्यभिचरितमनेकत्वं यस्य तदिदमव्यभिचरितानेकत्वमेकं तस्य गतिपरिणामस्तदापत्तिः सैकत्वापत्तिरनेकेन विना न भवतीति / यथा शुक्रशोणितादेरनेकस्यैकत्वापन्नस्याध्यात्मिकस्य / __ यथोक्तम्-माऊ ओयं पिऊ सुकं तं तदुभयसंसिर्ल्ड कलुसं किविसं तप्पढमयाए आहारमाहारेत्ता जीवो गब्भत्ताए वक्कमति / सत्ताहं कलहं होति सत्ताहं होइ अब्बुदं॥ अब्बुदा जायए पेसी पेसीतो जायते घणम् // (तं०वैगा०४६४) इत्यादि / मिन्नानां वैषम्येण परिणतानां शुक्रशोणितसंसृष्टाहारादीनामैक्यापत्त्या हि सर्वत्वं शरीरेन्द्रियादेस्तथा वाक्यमपि सर्वत्वम् / भूम्यम्ब्वादिव्रीहितोयदेशकालादिभिन्नार्थानां वैषम्येण विपरिणाममापनानामैक्यापत्त्या सर्वत्वं दृश्यते / नान्यथेति, हिशब्दो यस्मादर्थे / यस्मादित्थं भिन्नार्थाव्यभिचरितैकगतिः सर्वत्वं, स हि भेदभावः सर्वत्वम् / तसान्नाभिन्नस्सैकस्य सर्वत्वं कस्यचित् तस्मात् सर्वत्वाभावादयुक्तमुच्यते / 'पुरुष एवेदं सर्व'मिति / / ___किं चान्यत्-त्वदुक्तैकसर्वतायां त्वित्यादि, एकमेव सर्वमित्येतस्यामेकसर्वतायाम् , सत्त्वैकतायामिति वा पाठात् / सर्वैकपुरुषमयतायां प्रत्यक्षत एव भिन्नानेकैकसर्वताया दर्शनात् प्रत्यक्षविरोधः / ग्रहणभेदादनुमानविरोधः, ग्रहणभेदे हि न्याय्यो ग्राह्यभेद इति भेदत्वपरिणामित्वादिभावाभावे सर्वत्वापत्तिभवनाभावाद्वानुमानविरोधः / त्वदुक्तास्मदुक्तैकार्थ्याभावे भेदाभ्युपगमात् स्ववचनाभ्युपगमविरोधः / लोके घटपटादिभेदप्रतीतेलॊकविरोधः। अविकल्पशब्दार्थादित्यादि / अविकल्पः शब्दार्थ इत्यभ्युपगम्य विकल्पव्यवहाराङ्गीकरणाचाभ्युपगमविरोधः। सर्वमेकमिति विकल्पधर्मत्वेन धर्मित्वेन च तदुभयविशेषत्वाभ्यां चेष्टस्य तेनैवाभ्युपगमेन निराकरणादविकल्पशब्दार्थस्याभ्युपगतधर्मधर्मिखरूपविशेषोभयविरोधाः / असिद्धादिहेतुता च हेतोरनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वादित्यादेः प्रतिज्ञातैकपुरुषाभेदात् त्वया, असाभिश्चोक्तेन न्यायेन पुरुषाभावाद्धर्यसिद्धेराश्रयासिद्धिस्त्वन्मतेनार्थान्तराभावेऽसाधारणता, असन्मतेन विपक्ष एव भावाद्विरुद्धता, साधारणानैकान्तिकता वा / सपक्षमभ्युपगच्छतो वा ते घटाद्यव मातुरोजः पितुः शुक्र तत्तदुभयसंसृष्टं कलुषं किल्विषं तत्प्रथमतयाऽऽहारमाहार्य गर्भतया व्युत्क्रामति / सप्ताहं कललं भवति सप्ताहं भवत्यबुंदम् / अर्बुदाजायते पेशी पेशीतो जायते धनम् // गर्भोपनिषद्यप्येतस्यास्ति वर्णनम् / .. २वि घणं भवे ॥३°स्याने क-ग।