________________ 218 नयचक्रम् / [विध्युभयार:गतत्वं चेति विचार्य स्यात् / अथवा त्वदभिप्रेतमेवैतदभावप्रतिपादनम् , नास्पदभिप्राय एवमित्येतेन विधिना / कुतः ? तदात्मत्वाभिमतनिरसनात् यो यंदात्मत्वेनाभिमतोऽर्थस्तं निरस्य त्वादानमेवार्थ निरस्यन् दृष्टो यथोष्णो न भवत्यग्निरिति / ध्रुवमौष्ण्येनाविनाभाविनमौष्ण्यात्मानमग्निमेव निरस्येत् / तथेहापि विनिद्राद्यवस्थालक्षणं पुरुषमुक्त्वा पुरुषश्वात्मैव ताः, पुरुषान्न भिन्नाः सन्तीति ता निराकुर्वस्तदात्मानं पुरुषमेव त्वं निराकरोषीति त्वदभिप्राय एवायं पुरुषाभावः / एवं तावत् प्रवृत्योपलक्षितस्त्वदीयोऽभिप्रायो व्याख्यातः / नाभिप्रायमात्रादेवाभावः / किं तर्हि ? स्फुटमेव त्वयोक्तं नास्ति पुरुष इति / __तद्यथा -यस्तु यत्नेनेत्यादि सामान्येनायं न्यायोऽवतार्यते / भावना त्वस्य विशेष्य वक्तव्या / यथावस्थालक्षणः पुरुषः पुरुषलक्षणावस्था इति वातिदिश्यमानानां परस्परमेकत्वमन्यत्वमवक्तव्यत्वमसर्वत्वं चेति विकल्पाः स्युः। सविकल्पत्वेन पुनरेते सन्ति कल्पनाविषयत्वाद्विकल्पातीतनिर्विकल्पपरमार्थत्वाच लक्षणत्वं त्वयोक्तं प्रागतो न तूक्तवत् त्वयैव स्फुटीकृतमसत्त्वं प्रतिपादयितुमिष्टं त्वद्वचनेनैव सर्वस्यापि न केवलं पुरुषस्यैव / अवस्थानामवस्थावतः पुरुषस्य चेति वयमपि ब्रूमः / न केवलं त्वद्वचनादेवासत्वं पुरुषस्य त्वद्वचनसमर्थनया वयमप्यसदेव सर्व त्वदिष्टमिति ब्रूमः / कुतः ? त्वन्मते सर्वस्याभावात् / भवनं हि द्विविधं मया वक्ष्यमाणमितरेतरापेक्षद्वैतवृत्तिसनिधिभवनमापत्तिभवनं च / सन्निधिभवनमापत्तिभवनाभावे न भवितुमर्हति / तिष्ठतु सन्निधिभवनमिदमपि / कुतोऽस्यापत्तिभवनं पुरुषस ? कथं नास्ति ? भेदत्वेनाभूतत्वात् परिणामित्वेनाभूतत्वाद् वन्ध्यापुत्रवत् / यथा वन्ध्यापुत्रो भेदत्वेनापरिणामित्वेन वा अभृतत्वान्नास्ति, तथा त्वदिष्टं सर्वमापत्तिं नानुभवतीत्यसत् / किमर्थमित्थं विशेष्यते ? भेदेन परिणामित्वेन वाऽभूतत्वादिति / न पुनरभेदत्वादपरिणामित्वादित्युच्यते ? उच्यते-भेदो न भवत्यभेदादन्यो वा स्यादेवमपरिणामीत्यभेदत्वादपरिणामित्वादिति / नास्य भेदोऽस्तीत्यभेदः। नास्य परिणामित्वमित्यपरिणामित्वादभेदत्वादिति / बहुव्रीहिसमासोवा स्यात् / बहुव्रीहिस्तावन्न घटत एव, अन्यपदार्थत्वादन्यस्वार्थस्याभावात् / अतः समन्वयाभावः / समन्वयाभावात् तदभावः / तत्पुरुषोऽपि प्रसज्यप्रतिषेधपक्षे न घटते / नञः क्रियापदसम्बन्धिनोऽसमर्थत्वात् तस्माद्भदादन्य इति पयुदासः स्यात् / स च बहुव्रीहितुल्य एवार्थत इति भेदत्वेनाभूतत्वात् परिणामित्वेनाभूतत्वादिति सुखग्रहणार्थ शङ्कापोहार्थश्चैत्युक्तम् / भिन्नानां हि १०भिमत क-ख। 2 यथा क-ख। 3 °थात्मा क-ख। 4. नीति क-ग। 5 मननयना ख-ग। 6 श्वेग।