SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 217 तोस्तद्रूपापत्यनिष्टत्वं सिद्धम् / अन्यथावस्थानां विशेषितानामन्यत्वे साध्ये पुरुषपृथक्त्वेन तदसिद्धेराश्रयासिद्धिस्तद्रूपापत्त्यनिष्टत्वं वा सिद्धमाशङ्केत / अथवा पुरुषोऽवस्था इति चाविशेष्य पराभिमतवस्तूभयमपि परस्परतोऽन्यदिति सामान्येन साध्यते / इतरस्येतररूपापत्त्या अनिष्टत्वादित्यर्थः / अवधारणभेदाचेतररूपापत्त्यनिष्टत्वमापादितम् / किमिव ? अवस्थान्तरवत् / यथा विनिद्रावस्था सुप्तावस्थारूपापच्या नेष्टा तथा स्वतोऽन्यतश्चेति तद्रूपापत्त्यनिष्टत्वासिद्धिरिति मा मंस्था इति / __ अत आह-यतोऽन्यतोऽवस्थास्वात्मत्वमस्य नेष्यते पुरुषस्य / एतदवस्थारूपापत्त्या पुरुषानिष्टत्वादवस्थाद्वारेण पुरुषस्य अवस्थानों चान्यत्वानेकत्वं त्वदुक्तौ चैवमुपपादितं पुरुषातिदेशात् / पुनरित्यादि 'पुरुष एवेदं सर्व' (श्वे० ३।१५)मिति पुरुषत्वेनावस्थानामतिदेशेऽन्यत्वं न सम्भवत्येव / कथम् ? स्वपरविषयकृतभेदद्वारान्यत्वासम्भवात् / स्वविषयकृतो घटस्य रूपादीनां प्रधानस्य सत्त्वादीनां चैकवस्तुगतानामेव धर्माणां भेदः, परविषयकृतस्तु तयोरेव वस्त्वन्तरात् पटादेः पुरुषाच भेदस्तदुभयभेदद्वारमन्यत्वं सम्भाव्येत / तत् त्वनभ्युपगमान्यत्वद्वारद्वयं भेदद्वयासम्भवात् / ततोऽन्यत्वानुपपत्तिः कस्यचिदिति वस्तुनः, कथश्चिदिति रूपादिसत्त्वादिप्रकारेण तद्वारानभ्युपगमादेव / ततः पुरुषादन्यस्यानुपपत्तौ सत्यां ता अपि चतस्रोऽवस्थान्यथापत्तिवत् पृथक् पृथक् पुरुषः, चत्वारः सप्रभेदाः स्युः पुरुषाः / इदमपि त्वदुक्तिवदेव / तत् कथम् ? इति, तदुच्यते / यथा केनचिदुपपत्तिप्रकारेणासम्भाव्यमप्यन्यत्वमुच्यते तथा ता अप्यवस्थाः सम्भावनापादितान्यत्वाः पृथक् पृथक् स्युः, ततश्च ताः पुरुषस्वात्मत्वात् परस्परतोऽन्यत्वाच पुरुषाः पृथक् पृथक् विनिद्रावस्था प्रत्येकं पुरुषः / एवं शेषा अपि प्रत्येकं पुरुषाः / केन पुनरुपपत्तिप्रकारेणान्यत्वम् ? अवधारणभेदादेव / एवं पुरुपातिदेशात् पुरुषबहुत्वं विनिद्राद्यवस्थानां पुरुषस्वात्मत्वादिति / अथेत्यादि, अथ पुरुषलक्षणापि विनिद्रावस्था न पुरुषः / यदि प्रत्येक पुरुषत्वं तद्वहुत्वं च दोषौ दृष्ट्वा पुरुषलक्षणापि विनिद्रावस्था पुरुषो नेष्यते ततः पुरुषोऽपि नहि पुरुषोऽस्तु पुरुषलक्षणत्वाद्विनिद्रावस्थावदेवं शेषा अपीति, यथा विनिद्रावस्था पृथक् पुरुष इत्यापाद्य तत्परिहारार्थ पुरुषलक्षणत्वे सत्यपुरुषत्वमाशङ्कय पुरुषस्यापुरुषत्वं तद्वदित्यापादितं, तथा प्रत्येकं सुप्ताद्यवस्था अपि पुरुष इत्यापाद्य तत्परिहारार्थं पुरुषलक्षणत्वे सत्यपुरुषत्वमाशय सुप्ताद्यवस्थानां तद्वत् पुरुपस्यापि पुरु. पात्मनोऽपुरुषत्वमित्यापादनीयम् / इति पुरुषाभाव एव / इत्थं पुरुषस्याभाव एव प्रसक्तः। कुतोऽस्य सर्वगतता ? विद्यमानस्य हि सर्वत्वमसर्वत्वं, सर्वगतत्वमसर्व१°कतः क-ख / 2 यतोऽवस्था क-ख / 3 स्थाभावान्य क-न / 4 न तर्हि क-ख / न. 2028
SR No.004328
Book TitleDwadashar Naychakram Part 01
Original Sutra AuthorN/A
AuthorChaturvijay, Lalchandra Bhagwandas
PublisherOriental Research Institute Vadodra
Publication Year1952
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy