________________ 216 नयचक्रम् / [ विध्युभयार:किं च-स पुरुषोऽपीत्यादि / एवं च सत्येकपुरुषमयत्वातिदेशात्यागे सोऽपि पुरुषः पुरुषान्तरेणाभिव्याप्तः पुरुषस्वात्मत्वादवस्थावदिति प्राप्तः / यथा विनिद्राद्यवस्थाः पुरुषस्वात्मैव नावस्थान्तरात्मिका इति कृत्वा पुरुषेणाभिव्याप्ताः तथा पुरुषोऽपि पुरुषस्वात्मत्वात् तदविनाभावाभावात् पुरुषान्तरेणाभिव्याप्तः स्यात् तथा तदापे पुरुषान्तरं पुरुपस्वात्मत्वात् तद्वदेवेति पुरुषानेकत्वं स्यात् तस्यापि तथैवेत्यनवस्था च / ततश्च पुरुषेणाभिव्याप्तत्वादनवस्थितैकत्वप्रतिष्ठः पुरुषः इति प्राप्तम् ,अनवस्थिता एकत्वेन एकत्वे वा प्रतिष्ठाऽस्य सोऽयमनवस्थितैकत्वप्रतिष्ठः पुरुषः स्यात् / पुरुषस्वात्मत्वादवस्थावत् / यथावस्थाः पुरुषस्वात्मत्वादनवस्थितैकत्वप्रतिष्ठास्तथा पुरुषोऽपि स्यादिति / तथानवस्थिततत्त्वप्रतिष्टः तस्य भावस्तत्त्वमात्मस्वरूपमवस्थिता तत्त्वेन तत्त्वे वा प्रतिष्ठास्य सोऽयमनवस्थिततत्त्वप्रतिष्ठः। न स्वरूपे प्रतिष्ठितः स्यात् पुरुषः पुरुषवात्मत्वादवस्थावत् / यथावस्थाः पुरुषस्वात्मनोऽनवस्थितात्मस्वरूपव्यवस्थाप्रतिष्ठाः पुरुषस्वरूपव्यवस्था एवैष्यन्ते / तत्रैव तासां प्रतिष्ठा न स्वात्मसु, तथा पुरुषोऽपि स्यात् / पुरुषान्तरातिदेश्यश्च पुरुषः स्यात् पुरुषस्वात्मत्वादवस्थावत् / यथेमाः सुप्ताद्यवस्थाः पुरुषस्वात्मत्वात् 'पुरुष एवेदं सर्व'मित्यतिदिश्यन्ते तथा पुरुषः पुरुषस्वात्मत्वात् पुरुषान्तरमेवायमित्यतिदेश्यः स्यात् / __ स्यान्मतम्-एतद्दोषभयादिदंशब्दवाच्यप्रत्यक्षार्थादन्यं पुरुषमभ्युपगम्यता एवावस्थाः पुरुष इति प्रत्यक्षार्थेदंविषयतया 'पुरुष एवेदं सर्व' (श्वे० ३।१५)मतिदेश्यस्तस्मादतिदेश्यात् / यथायं देवदत्त एवेत्ययंशब्दवाच्यो हि देवदत्तः प्रत्यक्षत्वाप्रत्यक्षत्वयोः स एव / तथा 'पुरुष एवेद' (श्वे० 3 / 15) इत्येतच्चायुक्तम् / यसादस्यां प्रत्यक्षार्थेदंविषयतायां सत्यामचेतनव्यक्तमूर्तानित्यादिरूपार्थपुरुषपरमार्थता प्रामोति / आदिग्रहणादसर्वात्मककार्यानेकत्वादिरूपार्थपुरुषपरमार्थतापि / न चेतनाव्यक्तामूर्तनित्यसात्मकसर्वगतकारणेकरूपार्थपुरुषपरमार्थतापि स्यात् / इति प्रसङ्गतोऽयं दोष आपादितः / एवं तावदन्यानेकत्वः पुरुष इति पुरुषस्वात्मापरि• त्यागेनावस्थाभेदं तद्वारेणोक्त्वोक्तः // इदानीमवस्थान्यत्वद्वारेणैव पुरुषानेकत्वं त्वदुक्तवमः-अवस्थास्त्वन्यत्वानेकत्व एव पुरुषः इत्येतत् प्रत्यभेदोपन्यासवाक्यं तद्वचनमारणेन विचारार्थोपन्यास इत्यर्थः। अवस्थास्तु पुरुषोऽन्यत्वानेकत्वे सत्येव यतोऽवस्थास्वात्मत्वं पुरुषस्येष्यते, ततस्त्वासामन्यत्वेनानेकः / अन्योऽनेकश्चेति वा / तत् कथमिति चेत् ? त्वदुक्तेरेवावश्यमन्यास्ताः पुरुषादस्माद् विनिद्राद्यवस्थास्ताभ्यश्च सोऽन्य इति परस्परावधिकमन्यत्वं साध्यते / तद्रूपापल्यनिष्टत्वादिति हेतुः। तयोश्वावस्थाऽवस्थाव 1 आघ। 2 मिति दृश्यस्पृश्याद्यतिदिश्यात् ग-घ।