________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 215 सङ्कराभ्यां हेतुभ्यामतथात्वं विनिद्रावस्थाया अविनिद्रावस्थात्वम् , एवं शेषाणामप्ययथास्वस्वरूपत्वमासामवस्थानां तत्स्वात्मत्वात् पुरुषस्वात्मत्वात् / पुरुषस्वात्माभिन्नविनिद्राद्यवस्थास्वात्मत्वादिति यावत् / तदेवैकत्वम् / कारणमाह--तत्तत्वात्मत्वात् तत्वात्मवदिति / तासामतथात्वमित्थमुक्तम् / अस्य वेति पुरुषस्याप्यतथात्वमेवापुरुषत्वमेव तत्स्वात्मत्वात् स्वात्मत्ववदिति / एतमर्थमुपसंहरति इति पुरुषावस्थाव्यवस्था। इत्थं पुरुषस्यावस्थानां च व्यवस्था विशेष्यासाधारणेन लक्षणेन चादृत्य व्याख्याता व्यवस्था तस्या अभावः स्वरूपसिद्धेरभावात् / मा भूदेष दोषः पुरुषस्यावस्थानां च व्यवस्थाया अभाव इति / यदि पूर्वोक्तवयवस्थां पृथक्पृथक् मन्यसे / पुरुषस्यापि सर्वावस्थाव्यापिनोऽवस्थानां च चैतन्यसमवस्थानाविर्भावतिरोभावोत्कर्षापकर्षाभेदभिन्नानां प्राग्व्याख्यातसृष्टिवत् / ततश्चोक्तवद्वा व्यवस्थानुपपत्ती सत्यां पुरुषातिदेशस्त्याज्यः / 'पुरुष एवेदं सर्व' (श्वे० ३।१५)मित्येकपुरुषमयत्वातिसर्गस्त्यक्तव्यो जायते / पृथक् पृथक् पुरुषस्थावस्थानां च स्वरूपव्यवस्थाभ्युपगमे पुरुषैककारणमयत्वविरोधादिति / एष दोषो मा भूदिति तदत्यागामर्थमयमतिदेशोऽतिसर्गः प्राग् व्याख्यातः। पुरुष एवेदं सर्व' (श्वेता० 3 / 15) मिति / किमर्थमसावतिदेशः ? इति चेत् / अद्वैतैकान्तार्थः। अद्वैतमेकपुरुषमयमित्येतत्प्रतिपादनार्थः तस्यैवासिद्धिः अद्वैतैकान्तस्य / किं कारणम् ? यस्मादेकपुरुषाभ्युपगमोऽयमेकपुरुषासिद्धिमेव ते करोति / तत्कथम् ? इति चेत् / योऽसावेक एव त्वया पुरुषः सम्भाव्यते तस्याप्यनेकतैवमापाद्यते / एवमिति त्वदभिहितेनैव पुरुषखात्मातिदेशाद्वैतेन / का पुनर्भावना ? / उच्यतेयत्वरूपेत्यादि, यावदवस्थावदिति / यस्य स्वरूपं यत्स्वरूपम् , यस्य स्वरूपं पुरुषस्य / किंवरूपम् ? 'नित्यसर्वगतसर्वात्मकत्वकारणत्वादिति / तदव्यतिरिक्तं लक्षणमासां ता अवस्थास्तदव्यतिरिक्तलक्षणास्तत्स्वरूपपुरुषाव्यतिरिक्तलक्षणास्त्वया विना भेदेनोच्यन्ते / तस्मात् पुरुषादभिन्ना एवोच्यन्ते इत्यर्थः / . तद्यथा-पुरुष एवावस्था नावस्था एव पुरुष इत्यवधारणभेदादेव भेदोपदर्शनेन च भेदोऽभ्युपगम्यते / तत एव भेदाभेदी नानात्वं तासां च त्वद्वचनादेव सिद्ध्यति / यथोर्ध्वग्रीवादिलक्षणो घटः, घट एवोर्ध्वग्रीवादयः / न पटो न पटचातुरश्यादय इति तस्य तासु तासां च तस्मिन्नवधारणानवधारणाभ्यां भेद एव सिद्ध्यति / न त्वभेदेऽवधारणभेदोऽस्ति यथा पटवात्मैव घटो, न घट एव घटखात्मेति / तस्मादवस्थानां विनिद्रादीनामवस्थावतश्च पुरुषस्य भेदस्त्वद्वचनादेवेति / , गोऽयम° ग। 2 तस्यातस्यौ क-घ /