________________ 214 नयचक्रम् / [विध्युभयार:विनिद्रावस्थास्वात्मत्वाद्विनिद्रावस्थैवेतीत्थं विनिद्रावस्थया सहैक्यं जाग्रदवस्थायाः। विनिद्रावस्थास्वात्मत्वं च सर्वावस्थानां पुरुषस्वात्मत्वात् त्वयैवाभ्युपगतम् / एवमितरेऽपीति विनिद्रावस्थैव सुप्तावस्था विनिद्रावस्थास्वात्मत्वाद्विनिद्रावस्थावत् , विनिद्रावस्थैव सुषुप्तावस्था विनिद्रावस्थास्वात्मत्वात् विनिद्रावस्थावत् , तथा जाग्रदवस्थैव विनिद्रावस्था जाग्रदवस्थास्वात्मत्वात् जाग्रदवस्थावत् / अस्यापि पूर्ववयाख्या / एवं जाग्रदवस्थया सहैक्यं विनिद्रावस्थायाँ व्याख्येयम् / एवमितरेऽपीत्यतिदेशः / जाग्रदवस्थैव सुप्तावस्था जाग्रदवस्थास्वात्मत्वात् जाग्रदवस्थावत् / जाग्रदवस्थैव सुषुप्तावस्था जाग्रदवस्थास्वात्मत्वात् जाग्रदवस्थावत् , तथा सुप्तावस्थैव विनिद्रावस्था सुप्तावस्थास्वात्मत्वात् सुप्तावस्थावत् / एवमितरेऽपीत्यतिदेशः / सुषुप्तावस्थैव जाग्रत्सुप्तावस्थे सुषुप्तावस्थास्वात्मत्वात् सुपुप्तावस्थावत् , एवमेवमवस्थानांप्रत्येकं विशेष्य परस्परत ऐक्यं भावितम् / सामान्येनापि सर्वोपसंहारेणोच्यते-यैवान्यावस्था सैवान्यापि एकखात्मत्वात् सैवेति / अथवा ऽवस्थानामपि प्रत्येकभेदेषु परस्परात्मत्वापादनेन मनुष्यतिर्यगमरादिषु घटपटतृणादिषु चैक्यमुन्नेयमिरात्मकमितरंदितरात्मत्वात् तत्स्वात्मवदिति / इति पुरुष एवेत्यादि, यावद्भेदाभाववदिति / इति-असात् कारणादेकत्वात् यत् प्रोक्तम् 'सर्वत्र सम्भाव्याभावात् सर्वाव्यापिता पुरुषस्येति तदुपनयति 'पुरुष एवेदं सर्व (श्वेता० 3 / 15) इत्यतिदेशाभावो भेदाभावादिति / अतिदेशोऽतिसर्जनं पुरुषात्मकत्वव्याख्या तद्भावनेत्यर्थः / पुरुषेण वास्याप्रत्यक्षेणेदंशब्दवाच्यस्य प्रत्यक्षस्यातिदेशः / अनेन वा तस्या प्रत्यक्षस्यातिदेशः / सर्वमेव तन्मयमिति / किं चान्यत्-उपवर्णनेत्यादि, यावयवस्थाभाव एवेति / उप सामीप्ये / सामीप्येन वर्णनमुपवर्णनम् , विशेषधर्मेण न सामान्यधर्मेण / सामान्यधर्मस्य दूरत्वाद् यथा पुरुषोऽयं समुत्थायोपविष्टत्वात् पाण्यादिसञ्चलनाच्छिरःकण्डूयनादिति / नार्थत्वादिति / उपवर्णनेन भिन्नानि रूपाण्यासां विनिद्राजाग्रत्सुप्तसुषुप्तत्वादिविशेषवर्णनेन तैश्चतूरूपैर्भिन्नैर्व्यतिकरः सङ्करश्च तासां प्राप्तावित्थमुक्तैकत्वात् / व्यतिकरो विनिद्रावस्थास्वात्मत्वं जाग्रदवस्थास्वात्मनः, जाग्रदवस्थास्वात्मत्वं विनिद्रावस्थास्वात्मनः / एवमितरयोरवस्थयोरपीतरेतरस्वात्मत्वप्राप्तिरेतयोश्च तत्स्वात्मप्राप्तिस्तयोरेतत्स्वात्मप्राप्तिः / स्वतश्च दानशीलतपोविशेपैनरकावाप्तिहिँसादिभिः स्वर्गावाप्तिः / स्वर्ग दुःखानुभवनं नरके सुखानुभवनं, पुरुषतत्त्वज्ञानान्मुक्तिरिति / सङ्करस्तु क्षीरोदकसंयोगवदविवेचनीयविनिद्रावस्थावात्मत्वमित्येतौ व्यतिकरसङ्करौ प्राप्तौ, ताभ्यां च व्यतिकर१ सहैक्यं विनिद्रावस्थया गेऽधिकः पाठः। 2 °तदेतरा ग / 3 °समि° ग।