________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 213 किं चान्यत्-अत एव त्वदभिहितात् कारणादस्य न त्यागोपादानयुक्तत्वादपि च ने तूभययुक्तत्ववाच्यत्वाभ्युपगम एव पितृप्रपुत्रवत् / यथैकः पिता पुत्रश्चावश्यमसौ स्वपितुः पुत्रत्वमन्तरेण स्वपुत्रं प्रति पितृत्वमनुभवतीति न पुत्रत्वं त्यजति / नापि पुत्रत्वमेवोपादत्ते / नापि पितृत्वमेव ततोऽसौ पिता च पुत्रश्चेति वक्तव्यः / तद्यधर्मयुक्तश्च दृष्टस्तथा स पुरुषो विनिद्रालक्षणालक्षणान्यतरत्यागोपादानायुक्तत्वादेव तल्लक्षणातल्लक्षणधर्मद्वययुक्तस्तद्धर्मद्वयवाच्यश्चावश्यं भवितुमर्हति, तदन्यतरत्यागोपादानायुक्तत्वस्य तदविनाभावादेव तावत् पुरुष एवावस्था इत्येतदयुक्तम् , अवस्थानामभावेऽनेकदोषप्रसङ्गात् / / ___ अभ्युपेत्यापि पुरुषस्वात्मत्वमवस्थानां चतसृणां पुरुषासत्त्वदोषं ब्रूमः-यद्यपि चेत्यादि, यद्यपि च पुरुषस्वात्मैव चतस्रोऽप्यवस्थास्तथापि न तर्हि नामेदानीं पुरुषोऽस्ति अनवस्थत्वात् / नास्यावस्थाः सन्तीत्यनवस्थस्तद्भावोऽनवस्थत्वम्, तसादनवस्थत्वादवस्थास्वरूपव्यतिरिक्तत्वात् तच्छून्यत्वात् , खपुष्पवत् / अथवा नाऽवस्थाऽनवस्था पुरुषो अनवस्था न भवति / योऽवस्था न भवति स नास्ति यथा खपुष्पम् , अवस्थाश्च त्वयाऽभ्युपगताश्चतुरवस्थावर्णनानेकात्मकसर्वगतत्वभावनैकैकावस्थाभेदाभेदापत्त्यात्मकाविकल्परूपाभ्युपगमात् / ततोऽन्यस्य खपुष्पस्थानीयत्वात् / प्रागवस्थानामेव सत्त्वमभ्युपगम्याऽनवस्थात्वेऽचतुरात्मकत्वादित्युक्तम् . अधुना तु पुरुषमेवाभ्युपगम्यानवस्थात्मकं परं परिकल्पितमेष दोष उक्त इति व्याख्ययोर्भेद इति / असन् पुरुषोऽनवस्थात्वात् खपुष्पवत् , अनवस्थस्य तस्याभ्युपगमेऽपि तु पुरुषस्यावस्थानां चतसृणामप्यैक्यं स्यात् / कुतः ? पुरुषस्वात्मत्वात् / त्वया धुक्तम् 'पुरुषस्वात्मैवावस्था नान्या'इत्यतस्तासामैक्यम् / तत्स्वात्मत्वात् पुरुषवत् / यथा हि पुरुषः स्वात्मत्वात् पुरुष एक एव तथा ता अप्यवस्थास्तत्स्वात्मत्वादेकमिति चतुष्काभावाचतस्रोऽवस्था इति बहुवचनानुपपत्तिस्ततश्चैकत्वात् सर्वत्वेन सर्वत्रे सम्भाव्यो न भवति पुरुषः / 'सृ गतौ' इति सर्वत्वस्यानेकाश्रयत्वात् पुरुष एव सर्वमिति / यदाश्रयादुच्यते तत्सर्वं किमाश्रयं यदुक्त्वा सर्वपुरुषस्य सर्वव्यापिता वर्ण्यते ? / तत आह-सर्वत्र सम्भाव्याभावात् / सर्वाव्यापिता पुरुषस्य प्राप्ता व्याचिख्यासितसर्वव्यापित्वविरोधिनी, ततः पुनरेकत्वं विनिद्रावस्थावात्मत्वात् तासां, पुरुषस्वात्मत्वात् परस्परात्मकत्वं च सिद्धम् / तदिदानीं भाव्यते विनिद्रावस्थैव हि जाग्रदवस्था विनिद्रावस्थास्वात्मत्वात् विनिद्रावस्थावत् / यथा विनिद्रावस्था विनिद्रावस्थास्वात्मत्वात् विनिद्रावस्थैव, तथा जाग्रदवस्थापि ,°दवस्था ग / 2 तत्त्वमय ग। 3 °ता घ / 4 °sनव घ। ५°त्रा घ। 6 °त्° ग।