________________ 220 नयचक्रम् / [विध्युभयार:स्थाभेदाद्वक्षादिदृष्टान्तम् / वृक्ष इति, पुरुषव्यतिरिक्तवृक्षाद्यवस्थाभेदाभावे साध्यसाधनोभयधर्मधर्म्यसिद्धयोदृष्टान्तदोषाः / आदिग्रहणाद्यथासम्भवं कल्पनां कृत्वा वैधर्म्यदृष्टान्तदोषा योज्याः / एवं तावत् पुरुषमयत्वं सर्वस्यायुक्तमित्युक्तम् / ___ अधुनातिदेशेन नियत्यादिष्वपि दोषांस्तानेवाह-यथा च पुरुषे तथेतरद्रव्यार्थेष्वपीति, नियतिकालस्वभावभावेष्वपि स्वं खं प्रति प्रति प्रत्येक योज्यं, तमतिदेशोपायमाचष्टे / तद्यथा-विनिद्रावस्थास्थानेऽभेदैकं विनिद्रावस्थासामान्यलक्षणं पुरुषस्य पुरुषवादे सुप्ताद्यवस्थाव्यापित्वात् / सुप्ताद्यवस्था अपि विशेषास्तस्य तदात्मत्वादिति यथा व्याख्यातं तथा नियत्यादावभेदैकत्वं नियत्यादेः सामान्यलक्षणम् / अतीतानागतवर्तमानबाल्यकौमारयौवनक्रमयोगपद्यादयो निद्रादिवद्विशेषलक्षणमिति व्याख्याय विकल्पद्वयप्रतिषेधस्तथैव कर्तव्यः / अथ किं या एता अवस्थास्ता एव नियत्यादिस्त नियत्यादिरेवावस्थाः ? यदि ता एव नियत्यादिः समुदयवादः, क्षणिकवादः, विज्ञानमात्रतावादः, शून्यवाद इत्यादि / अथ नियत्यादय एवावस्थास्तथा भेदैकत्वावस्थालक्षणत्वादिः स एव प्रपञ्चो योज्यः / इत्यतोऽस्मात् तत्त्वे तावत् संवदति / शेषं न सम्भवति सर्व त्वदुक्तम् / कतमत् संवदतीति चेत् ? यदयं भवति सोऽस्य भाव इत्येतत् संवदति, तस्य भावस्तत्वम् / येन भूयते यो भवति स एव भावः / कतलक्षणां पष्ठी कृत्वा तस्य भावः सभावः / इतीदमस्य दर्शनेन सह संवदति / किं कारणम् ? सर्वगतत्वानित्यत्वदेशकालाभेदात् सर्वगतत्वेन नित्यत्वेन च यथासंख्यं देशकालाभ्यामभेदात् / तद्धि भवनं देशे कचिन्न भवतीति सर्वगतत्वादभिन्नं, कालतः स तत्त्वं भवति न कदाचिन्न भवतीति नित्यत्वादभिन्नम् / तस्मादभेदादिष्वत एतदिदं पुनर्न तावदिच्छामः सम्प्रधार्यत्वात् / यस्तु भवति स कतैवेति सम्प्रधार्यम् / न हि कर्तरि विहिततिप्प्रत्ययान्तर्भवति शब्दश्रवणादेव कर्तृत्वमकर्तुराकाशादेरपि भवनादभवनव्यावृत्तिमात्रसत्तार्थत्वाद्भवनस्य / कारणपर्यायत्वात् करोतेरकारणकार्यमपि भवत्येव, भवतेः सान्निध्यापत्तिभवनद्वयार्थत्वात् , अस्ति-भवति-विद्यति-पद्यति-वर्ततीनां सन्निपातषष्ठानां सत्तार्थत्वादित्येतदवतत्रस्याव्यावृत्तस्यापि भवने कारणमाहभवतेः सानिध्यापत्तिभवनार्थत्वमस्ति-विद्यति-सन्निपातानां सनिधिमात्रभवनार्थत्वम् , पद्यतिवर्तत्योरापत्तिभवनार्थत्वमिति भावः सव्यापारत्वान्निापारत्वाच त्रयाणां भवतः सामान्यभवनवाचित्वादिति / अपरिणामित्वात् परिणामित्वादकर्तृत्वाच विशेषः / असतो भवनाभावादस्त्यादिभवनं सन्निधौ मात्रवृत्ते वा सन्निधिमात्रवृत्त्येव असन्निधिमात्रवृत्त्येव / सन्निधिमात्रा वृत्तिरस्येति सन्निधिमात्रवृत्ति तदस्ति भवनमापत्तिभवनपृथग्भूतं ततोऽन्यदीपद्भिन्नमव्यावृत्तमित्यर्थः।। 1 बाल्ये ग। 2 नित्या ग / 3 °गतनित्य ग। 4 य ग / 5 °दा ग / 6 °गः ग /