________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 221 सान्मतम्-सर्वतत्रसिद्धान्तेन व्याकरणेन विरुद्धमखतत्रभवन भवतेः / कर्तृविहिततिप्प्रत्ययान्तत्वात् / इत्येतच्चायुक्तम् / तत्रैवानुज्ञातत्वात् / यदुपादानमेतदभिधीयते इत्यादि / इदं तु सन्निधिमात्रवृत्तिभवनमेवोपादायाभिहितम् / 'यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीतिपरः (न्या० 65) प्रथमपुरुषे प्रयुज्यमानोऽप्यस्ती'ति गम्यते। भवतीति वर्तमाना विभक्तिः पूर्वाचार्यसंज्ञयोक्ता लडित्यर्थः। तत्परोऽस्तिरसिरससुधीति(?) धातुः 'इश्तिपौ धातुनिर्देशे' (वा०३।३।१०८) प्रथमपुरुषे, न मध्यमोत्तमयोःप्रयुज्यमानोऽपि गम्यतेऽर्थसद्भावादविनाभावादर्थेन तदुदाहरति वृक्ष इति / अस्तीति गम्यते / किमुक्तं भवति ? अस्ति भवति सन्निहितमित्यर्थः / निर्दिष्टं सनिधिभवनम् , उभयोः समानलक्षणत्वादादौ / आपत्तिभवनं तु अस्तिभवनमित्यादि यावदापद्यत इति / इदमपि चेषद्भिनं सनिधिभवनमेव / यथावृत्तिसनिहितस्य तथावृत्तेरापत्तिभवनम् / अथवा तथा वृत्तिरस्य तथावृत्ति, सन्निहितं च तथावृत्ति च तदिति सनिहिततथावृत्ति / किं तत् ? आपत्तिभवनम् / कुतः सन्निहितमेव तथा वर्तते इत्युच्यते ? / उच्यते-कारणकार्यस्य सत्त्वात् / कार्य ह्यङ्कुरादि बीजादौ सन्निहितमेव तथा तथा देशकालाकारनिमित्तवशाध्यक्त्यव्यक्तिरूपेण वर्तत इति। तन्निदर्शयति-यथा घटो भवतीति, पूर्वमघटत्वेन मृत्त्वेन दृष्टं सन्निहितमेव मृदि घटभवनं व्यक्तमित्यर्थः / तत्पर्यायकथनं निवर्तत आपद्यत इत्यर्थः / सन्निधिभवनमेवापत्तीभवति / उक्तमापत्तिभवनमपि / अनयोरेव न्यूनाधिकरूपतया सिद्धिरुच्यते सा चेत्यादि, सामान्यत्वात् सन्निधिभवनसिद्धिस्तावत् सा च भोग्यद्वैतभूततायां सन्निधिभवनसिद्धिः / तद्धि सन्निधिभवन द्वैतभूततायां सिद्ध्यति नाद्वैततायां दर्शितैकभोक्तभोग्यत्वाच्चायुक्तमुक्तत्वादिदोषात् / न ततो न्यूनतायां सिद्धिरधिकतायां वा द्वैतात् , तृतीयस्याभावात् / न्यूनाधिकानुपपत्तौ कारणमाह-व्यतिरेकाभावादिति, व्यतिरेकः पृथक्त्वानेकस्यैव वृत्तिर्विनापि भावः तदभावः / तदभावान्यूनतायामसिद्धिर्यथा स्वामिना विना भृत्यस्य, भृत्येन विना वा स्वामिनः। अधिकेऽपि व्यतिरेको-यथा भावव्यतिरिक्तं नास्तीति तथेह भोक्तभोग्यव्यतिरेकाभावादतो न्यूनाधिकाभावान द्वैते सनिधिभवनं सिद्ध्यति / नाद्वैतत्रतादितायामिति तत्प्रतिपादनार्थमुपपत्तिरुच्यते-ने ज्ञेयमन्तरेण ज्ञातृत्वम्, भोग्यस्य ज्ञेयत्वाच्छब्दादिगुणपुरुषोपलब्धिद्वयपुरुषोपभोगार्थत्वात् तद् ज्ञेयमापत्तिभवनम् / तदन्तरेण न ज्ञातुर्ज्ञातृत्वम् / कुतः ? ज्ञेयासत्त्वात् ज्ञेयस्यासत्त्वादिति वैयधिकरण्यात् / ज्ञस्याधर्मत्वादसिद्धो हेतुरिति चेत् न, ज्ञातृज्ञेययोः सम्बन्धित्वेन साध्ययोस्तदसत्त्वस्य धर्मत्वात् / अथ नै ग२ स्तिक-ख / 3 योरम ग। 4 त° ग-घ-ङ / 5 तद् क-ख / 6 सम्मिन्नत्वेन क-ख /