________________ 222 नयचक्रम्। [विध्युभयार: वानुपपन्नं ज्ञातृत्वं सद् ज्ञेयत्वादिप्रयोगकालेऽर्थव्याख्यातत्वाच, ज्ञेयस्यासवादगृहीतज्ञेयत्वादिति, दृष्टान्तः खपुष्पज्ञत्ववत् , यथा खपुष्पविषयं ज्ञातृत्वमसंज्ञेय. त्वादनुपपन्नमेवमसंज्ञेयं ज्ञातृत्वं वैधयेण इतरकुसुमज्ञत्ववत् / यथा भूतादि खपुष्पेतरकुसुमज्ञत्वं संज्ञेयत्वादुपपद्यते तथा तदभिमताद्वैतज्ञत्वं द्वैते सत्युपपद्येत / तत्रैतस्य ज्ञातज्ञेयव्यतिरेकाभावात् तदन्तःपातित्वादसत्त्वमिति / अथवा पृथक्साधनं ज्ञातृत्वमुपपद्यते संज्ञेयत्वादितरकुसुमज्ञवद् वैधय॑णानुपपन्नमसंज्ञेयत्वात् खपुष्पवदिति / एवं हि ज्ञातुतित्वम् , यो हि संज्ञेयं जानीते स तु मुख्यो ज्ञाता यथा सलिलं सलिलमिति विद्वान् , यः पुनरसंज्ञेयं विजानीते स तु न ज्ञाता यथा मृगवृष्णिकां सलिलमिति विद्वान् / एवं तावद् ज्ञातैव न ज्ञेयमित्येतदर्शनं निरस्तमद्वैतम् / ___ अधुना ज्ञेयमेव न ज्ञातेत्येतन्निरस्यते-न ज्ञातारमित्यादि, ज्ञातारमन्तरेण तत्पयोयं दर्शयति-उपद्रष्टारमिति, ज्ञात्रा विना न ज्ञेयत्वं ज्ञातुरसत्त्वात् / अत्रापि पूर्ववदसंज्ञातृत्वादिति वा हेतुः। साधर्म्यदृष्टान्तो वन्ध्यासुतज्ञेयघटत्वम् / वैधयेणेतरसुतज्ञेयघटत्वम् / विपर्ययेण वा पूर्ववत् साधनद्वयं परस्परापेक्षज्ञातशेयत्वसाध्यतया वा वैयधिकरण्यपरिहारेण हेतुर्वाच्यः। 'एवमेव हि ज्ञेयस्य ज्ञेयता भवितुमर्हति / ___ यदि केनचिदनुपहतेन्द्रियज्ञानेन ज्ञायते // ' यथाऽनुपहतेन्द्रियबुद्धिपुरुषज्ञेयघटवत् मध्यस्थेन तांगमकुशलेन विपश्चिता प्रमात्रा वा ज्ञेयं साधनम् / यथेति यथा न भोग्यमन्तरेण भोकृत्वमसद्भोग्यत्वात् / खपुष्पमकरन्दभ्रमवत् / वैधम्र्येणेतरकुसुममकरन्दभ्रमवत् / सद्भोग्यत्वाद्भोक्तृत्वमिति तत्साधम्र्येण वा वैधयेण खपुष्पभ्रमवत् / परस्परावधिकं वा पूर्ववद्भोक्तभोग्यत्वसाधनमत्रापि च / एवमेव हि भोक्तुभॊक्तृत्वमिति ग्रन्थो द्रष्टव्यः / तथा न भोक्तारमन्तरेण भोग्यमसद्भोक्तृत्वाद्वन्ध्यासुतयौवनवर्द्धितकवत् / सद्भोक्तकं भोग्यत्वादितरसुतायौवनवर्द्धितकवत् / पूर्ववदेवात्रापि व्याख्या / यावदेवमेव हि भोग्यस्य भोग्यत्वमिति / युगपद्वा परस्परसम्बन्धसत्ताको भोक्तभोग्यौ / तत्सम्बन्धित्वात् तयोः सम्बन्धित्वादित्ययमर्थप्रदर्शनहेतुः। प्रयोगहेतुस्तु सम्बन्धित्वादित्येव / यथा सम्बन्धी भ्राता सम्बन्धेनेतरेण भ्रात्रा विना न भवति कनीयान् ज्यायसा, ज्यायान् वा कनीयसा / तथा भोक्तभोग्यौ / यथा सदलङ्कारौ दम्पतीत्येवमादिदृष्टान्तैभॊक्तभोग्यसम्बन्धत्वसिद्धिरन्योन्याविनाभाविनीति / प्रागुक्तं सन्निधिभवनं द्वैते सति सिद्ध्यतीत्यधुनेतरद्यदि च तथा तथा वर्तनं भवनं रूपादौ तेन तेन प्रकारेणान्यथा अन्यथाव्यापत्तिभवनं रूपे सुतोज्ञमघटत्वं क-ख। 2 वादभो' क-ख। 3 °धे स्व क-ख। येन क-ख। 5 त्व क -ख /