________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 223 रसे गन्धे स्पर्शे पृथिव्यादौ गवादी घटादौ च सकलजगद्वर्तिविवर्तरूपं तदपि नैकैकस्मात् / एकमेकमेवैकैकं पुरुषादि तसादेकसान भवति / किं तर्हि ? यदि नैकमेकं तसादनेकस्साद्भवति / अपरिणामिनो वा सन्निधिमात्रभवनान्नेति वर्तते / किं तर्हि ? परिणामिन एवापतिभवनयोग्याद्भवति / कुतः ? आपत्तित्वात् आपत्तिभवनत्वाद् व्रीहिवत् , यथा व्रीहिरनेकैकस्य रूपरसादिपरमाणुधणुकादिसछाताधकुराधापत्तिः, अङ्कुरादेवा भूम्यम्ब्बादिदेशकालादिसङ्घाताद् ब्रीह्यापत्तिः / तथैतदनेकात्मकैकमापत्तिभवनम् , नाप्यद्वैते / इत्थं तावत् स्वविषयद्वैते सत्यापत्तिभवनम् , परविषयद्वैते सत्येवापत्तिभवनमिदमुच्यते नाप्यद्वैते परविषयद्वैताभावे भवत्यापत्तिभवनमनर्थकापत्त्यभावादेवैकस्माद् द्वितीयस्य कस्यचिदर्थमकुर्वतः / किन्तु सङ्घातात्मकत्वात् परार्थत्वमिति सम्बन्धः / सङ्घातात्मकभवनात् पारार्थ्य, संहत्य कारिणां हि पारायं नानर्थक्यं न स्वार्थत्वं नान्योऽन्यार्थत्वं च केवलम् , दृष्टान्तः गृहघटपृथिव्यादिवत् / यथा गृहघटपृथिव्यादयः सङ्घातात्मकाः स्वतः पृथग्भूतपुरुषार्थी नानर्थकाः, न स्वार्था, नान्योऽन्यार्थाः / पुरुषार्थमेव चान्योऽन्यार्थाः / स्त्रीशोभनार्थालङ्कारवत् / तथा चक्षुरादयोऽप्याध्यात्मिका इति दृष्टान्तबाहुल्यात् परार्थव्यापितां दर्शयति इति / आचक्षुरादयोऽपि चक्षुरादयोऽपि सूक्ष्माध्यात्मिकाविवैक्याद् यावत् परार्था यावच्च रूपादियणुकादयः / किमङ्ग पुनर्गृहघटपृथिव्यादयः स्थूला ग्रामारामादयश्चेति / यत्पुनरिष्यते 'एकं कारणं पुरुषादी'ति तन्न वयमभ्युपेमः। त्वन्मतेनाप्येकं चेत् किश्चित् पारार्थ्यकारणमिव्यते तदभ्युपगम्य भेदात्मकेन वानेन भवितव्यमिति प्रतिजानीमहे कारणत्वात् तन्त्वादिवत् ,तन्तुकपालादयो हि कारणत्वात् पटघटादीनां कार्याणां रूपादियुट्यंश्वादिसङ्घातरूपा अनेकात्मका एव कारणभावं बिभ्रतो दृष्टा नान्यथा / तथा तेनापि त्वदिष्टेन कारणेन भवितव्यमनेकात्मकेनापरार्थेन च भवितव्यमिति वर्तते, परस्मै अर्थः परार्थः / परार्थोऽर्थः कार्य तस्य कारणस्य तेन कारणेन परार्थकार्येण भवितव्यं कारणत्वात् तन्त्वादिवत् / यथा देवदत्तशीतत्राणाद्यर्थे पटकार्याणि तन्तवस्तथा तेन कारणेन त्वदिष्टेन भवितव्यम् / स कतमोऽर्थः ? इति चेदुच्यते शब्दाद्युपलब्ध्यर्थत्वात्, आदिग्रहणाच्छब्दाधुपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्त इत्याद्यन्तोपभोगद्वयं पुरुषस्यार्थः / सोऽस्यापत्तिभवनस्य परार्थार्थः / तसाच्छन्दाधुपलब्ध्यर्थत्वात् परार्थार्थेन तेन कारणेन भवितव्यम् / किं हि कारणम् ? रूपादि दृष्टमेकं स्वार्थश्चेति कारणस्थानेकैकत्वाविनाभावं पारार्थ्याविनाभावं 1 ते क-ख / 2 °सन्तानत्वात् क-ख। 3 कै क-ख। 4 प्येकत्वे क-ख / 5 र्थाथै क-ख। 6 वदेत् क-ख।