________________ 224 नयचक्रम् / [विध्युभयार:च स्वार्थैक्याभावं च दर्शयति-विपक्ष एव नास्तीत्यभिप्रायः। रूपादिग्रहणं तु पक्षत्वात् , रूपादीनां सङ्घातपारार्थ्यपरिणामित्वैः सन्निधिभवनवैलक्षण्यं दर्शयति-तदित्थं द्वैते त्वित्यादि, द्विविधपुरुषोपभोगार्थमनेकात्मिकायाः प्रकृतेरित्यादिना ग्रन्थेन तदापत्तिभवनस्वरूपवर्णनम् / प्रक्रियन्ते विकारास्तत इति प्रकृतिः, प्रधीयन्तेऽस्मिन् महदादय इति प्रधानम् , बहूनां धानं बहुधानं-बहुधानकम् , मरणादविनाशादमृतमित्याद्यन्वर्थनामिकायाः प्रकृतेरनेकात्मिकायाः आत्मभिः सुखदुःखमोहैः प्रकाशप्रवृत्तिनियमात्मकैः प्रागभिहितावार्यपवनपाषाणवत् / स्वपरेषां नर्तिकापर्णनावामात्मनश्च प्रतिपत्तिचलनधरणकरणैरिवेति / ते हि वैकारिकतैजसभूतादिविकाररूपाः सुखदुःखमोहाः प्रकाशवृत्तिनियमात्मकाः सत्त्वरजस्तमोलक्षणा गुणाः साम्यावस्थायां प्रकृतिरित्युच्यन्ते / वैषम्येण तु परिणामानुक्रममापन्नाः परस्पराविनिर्भोगवृत्तयोऽङ्गाङ्गिभावेन परिणामाद्विकारीभवन्तः शब्दादीनारभन्ते / तैर्महदादिना परिणामानुक्रमेणारब्धाः शब्दादयोऽपि तदास्मका एव / शब्दादिपरिणामानुक्रमः सोऽधुनानुषङ्गेण स्वयमेव वक्ष्यति / तदात्मकत्वं तावत् साध्यते / तदात्मका एव सुखाद्यात्मका एव शब्दादयस्तदात्मकत्वाभिव्यक्तकार्यत्वात् / ते सुखादय आत्मा तदात्मा तद्भावस्तदात्मकत्वं सुखाद्यात्मकत्वं तदात्मत्वेनाभिव्यक्तं कार्य येषां ते तदात्मत्वाभिव्यक्तकार्याः शब्दादयस्तद्भावात् तदात्मत्वाभिव्यक्तकार्यत्वात् मृत्पिण्डकार्यशिवकादिमृत्त्ववत् / यद्यदात्मनाभिव्यक्तकार्य वस्तु तत् तदात्मकमेव दृष्टम् , यथा मृदः कार्य पिण्डस्तस्य कार्य शिवकः। एवं क्रमेण स्तबककुशूलकादि यावद् घटः, कपालानि वा। मृदास्मकान्येव कार्याणि मौलस्य कारणस्यात्मना विनोत्तरोत्तरेषां कार्याणामभावात् , आदौ मध्येऽवसाने च मृदात्मकत्वं दृष्टमेवं शब्दादयः सुखानां कार्य, शब्दादिकार्य त्वाकाशादि, तत्कार्यश्च गवादि घटादि सर्व सुखाद्यात्मकत्वेनाभिव्यक्तं तदात्मकमिति ग्राह्यम् / कथं सुखाद्यात्मकत्वेन शब्दादिव्यक्तम् ? इति चेत्,सुखाद्युपलब्धेः सुखात्मकानां वेत्यादिना तदर्शयति यावदात्मत्वेनाभिव्यक्तं कायमेषां शब्दादीनामिति गतार्थम् / एवं तावद्भूतादिनाहङ्कारेणारब्धाः शब्दादयः यानि तैरारब्धानीत्यादि / यावत् सुखादिमया एव परिणामानुक्रमेण भूतानामाकाशादीनां शब्दादिभिः मुखादिमयैरारम्भं दर्शयति-तत्र शरीरादीन्याध्यात्मिकानीति, शरीरीभूतानि शब्दाद्यारब्धानि भृतादीनि भूतादिमयानि त्रिगुणानि वैकारिकारब्धानि श्रोत्रादीन्येकादशेन्द्रियाणि सर्वाण्येव / त्रयाणां सुख १°णाऽविनाशाs° ग। २°चा ग। 3 °कार्पण ग। 4 °तेना क-ख। 5 स्तूप° क-ख। नादिनो- नुक-ख।