________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 225 दुःखमोहानां सनिवेशविशेषास्ततस्तन्मयता, वाह्यानि घटादीनि रूपादिसमूहत्वात् तेषां च सुखाद्यात्मकत्वात् तन्मयानि तदात्मकान्येव / तथा पृथिव्यादयः तन्मयकारणारब्धत्वादिति, महदादेः सकलस्य विकारस्य ब्रह्मणस्तथा तस्य च जगतः सुखादिमयकारणारब्धत्वात् / यद्यन्मयैरित्युपनयः, तन्मयं तदिति निगमनम् , दृष्टान्तः कासिकपटवदिति / कार्यासविकारैस्तन्तुभिरारब्धः पटोऽपि कार्पासिक इति यथोच्यते तथा भूतानि सुखाद्यारब्धशब्दाद्यारब्धानि सुखाद्यात्मकानि / भूतैरारब्धानि पुनः शरीरादीनि घटादीनि, आदिग्रहणात् पटकुटिवत् परम्परारब्धत्वात् / यथा कापोसिकतन्त्वारब्धपटमयी कुटिरपि कासिकीत्युच्यते, तथा सुखाद्यारब्धशब्दाद्यारब्धभूताधारब्धपृथिव्यादि-गवादि-घटादि-सरिसमुद्रमन्दरादीन्यपि. तदात्मकानि / अनेकात्मकैकपूर्वकं शरीरमिति प्रतिज्ञा, किं पुनः कारणमेवं प्रतिज्ञायते ? प्रोक्तपुरुषायेककारणपूर्वकत्वनिराकरणार्थ, वक्ष्यमाणेश्वरादिकारणपूर्वकत्वनिराकरणार्थं च / को हेतुः ? अन्वितविकारत्वात् / अन्विता विकारा यस्य तदन्वितविकारम् , हस्ताकुञ्चनप्रसारणाङ्गुल्युत्क्षेपणापक्षेपणपादप्रक्षेपाङ्गनिवर्तनादिविकाराः शरीरावयवाश्च सुखादिभिः शब्दादिभिश्च अन्विता विकारस्तस्मादन्वितविकारत्वाच्चान्दनशकलवत् / यथा मृदुसुरभिशीतहरितरक्तश्वेतादिभेदस्पर्शरसरूपगन्धादिविकाराणि चन्दनशकलानि सुखाद्यन्वितानि परमाणुव्यणुकाधनेकात्मकैकचन्दनतरुपूर्वकाणि तथेदं शरीरमपि सुखाद्यनेकात्मकैककारणपूर्वकमिति नैकैकपूर्वकम् , यथा 'पुरुष एव'(ऋक्सं०मण्ड०१०,सू०९०, ऋ. २)इत्यादिना पूर्वकं न निर्हेतुकं नासत्पूर्वकं वैभासिकाद्यभिमतवदित्येतस्य साधनस्य व्यावृत्त्यार्थोद्देशार्थमन्वितत्वादिति सामान्येनास्यैवोक्तस्य निगमनार्थम् / अथवैकैकपूर्वकत्वादिनिराकरणसाधनं वा पृथगेव / अन्वाह चेति पूर्ववत् / / ___ अंजामिति, न जायत इत्यजा नित्या, अथवा पुनः 'अज गतिक्षेपणयोः' इति क्षिप्रगमनादजा, ईर्यप्रकृतिः क्षिप्रपरिणतिगतिसाधाद्वहुप्रसवसाधाद्वा अजेवाजा ताम्, एकामद्वितीयां सर्वगताम् / मा भूदेकैकेति अनेकात्मका, एकाम् लोहितशुक्लकृष्णां सुखदुःखमोहात्मरजःसत्त्वतमोमयीम् , बह्वीः अनन्ताः प्रजाः प्रजायन्त इति प्रजाः / महदहङ्कारतन्मात्रादिक्रमेण ब्रह्मादिस्तं वाऽऽप्तां सृजमानामुत्पादयन्तीम् , सरूपाः सुखाद्यात्मिका आत्मरूपा आत्मसरूपाः। यद्वा ह्यजा बहुवर्णिकात्मखरूपप्रजासर्जिनी प्रधानीति गण्यते / ताम् , अजो ह्येको जुषमाणः १ज्ञ क-ख। 2 विक-ख। ३°नाशिक-ख / 4 अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः॥ (श्वेता. उ.अ.४, श्लो.५) 5 °अ° घ। 6 प्रत्यात्मजा क-ख / नाच०२९