________________ 226 नयचक्रम् / [विध्युभयार:सेवमानः श्रीयमाणः / स हि न जायत इत्यजो नित्यत्वात् / एकः सनिधिभवनस्याभिन्नस्सैकरूपत्वात् सर्वगतत्वाच तामेव जुषमाणः, अनुशेते अनुशयमनुबन्धं च तस्या न मुञ्चति अनुधावतीत्यर्थः / यथा वत्सोऽजामनुधावति तथा तां प्रकृति पुरुषः, जहात्येनां भुक्तभोगामजोऽन्यः असावेव पुरुषोऽन्य एव तस्या उपरतः संवृत्तो भुक्तभोगां दृष्टदृश्या विदितात्मा नात्मविशेषः प्रकृतिपुरुषो राज्ञो नर्तक्या इव विकारान् बाह्यान् भ्रूक्षेपक्रमकरचलनादीननुशयहेतूनन्तःकरणशरीरादिसमुद्भूताननात्मभूतानुपलभ्य भिक्षुरिव स्वभावावचिन्तनाद्विरक्तोऽहमनया वृथा क्लेशितो बहिरन्तरशुद्धयेति विरमति / सापि दर्शितविकारा दृष्टाहमनेनेति वीडितेव विनिवर्तत इति / तथेतदर्थसम्बन्धिनी व्याख्यातैव द्वितीया गाथा / सुखं च दुःखं चाऽनुशयं च वारेणायं सेवते तत्र तत्र / विशन्ति योनि व्यतिरेकिणस्त्रयः अजस्तु जायामतिसत्यशुद्धः // इति / द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखजाते / तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति // (श्वे० अ० 4, श्लो० 6, मुण्डको० 3 / 1 / 1) उभा उभौ सुपि डादेशात् सखायावन्योऽन्यसहितावेव विभुत्वनित्यत्वाभ्याम् / सयुजा पूर्ववद् वादेशात् समानयुजौ समानस्य सकारादेशात् / सह पोभ्यां सपी सपक्षौ शुद्ध्यशुद्धिपक्षौ / सयुजौ सुपर्णाविति वा पाठः। सुष्टु अतीव युक्ती सर्वगतत्वादविभागेन सदा युक्तौ, शोभनपर्णौ च परस्परबन्धैक्यापत्तिजनितविचिअवर्णसुखासुखपक्षौ / एकवृक्षं लोकाख्याश्वत्थं स्वत्वत्वादचलत्वाद्वृक्षोऽश्वत्थसाध ात् , परिषस्वजाते परिष्वक्तवन्तौ / तयोरेकस्तयोः शकुन्योरेकवृक्षपरिष्वङ्गिणोरेक एव शकुनिर्भोगसमर्थः। तस्य पिप्पलस्य पिप्पलं फलं स्वादु भोग्यविकारविशेषं विचित्ररसमत्ति खादति भुङ्क्ते / पुरुष एव भोक्तृत्वात् ज्ञत्वात् / अनश्नन्नन्यः प्रकृतिसंज्ञः शकुनिरभुञ्जानः अभिचाकशीति आभिमुख्येन तस्यात्यर्थ काशते, शकुनिप्रस्तुतेः पुल्लिङ्गम् / एतदधुना परीक्ष्यते / अथ कथमित्यादि, यावद्विपदभ्युपगम्यत इति / यद्यनेकात्मकैककारणत्वमिष्यते / एवमेककारणत्वप्रतिषेधानन्तरं पुरुषायेककारणत्वप्रतिषेधाहितसंस्कारतिरोधानकालमप्यप्रतीक्ष्य त्वया कथं शब्दैकगुणप्रवृत्तिविपदभ्युपगम्यते ? / अभ्युपगम्यतां तावद्रूपादिसृष्टौ व्यवहारानुपपातिनामेषां लोके दृष्टानां द्विव्यायनेकस्पर्शरसगन्धगुणानामनेकैकत्वात् तदात्मकवाय्वादिसृष्टिः / अस्तु नाम / त्वन्मतेन सह घटमानमिदं तु न युज्यते / शब्देनैकगुणा प्रवृत्तिरित्थंभूतेनास्य तच्छब्दैक १°मयोग्य: क-ख। २०क्तक-ख। ३°बद्धाग।