Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 221
________________ 168 नयचक्रम् / [विधिविधिनयेकदाचिद्भवति कदाचिन्न, चिकीर्षुरप्यालस्यादिभिः प्रवर्तते न वा, प्रवृत्तोऽप्यकृत्वैव . घटं विनिवर्ततेऽन्यद्वा करोति। विघ्नो वास्य भवति / तथान्यकारकाण्यपि वाच्यानि / तच्च कार्य कदाचित् सिद्ध्यति कदाचिन्न / अन्यार्थप्रवृत्तावन्यत् सिद्धयेत् / न वा सिद्धयेत् / तथा च दृश्यन्ते क्रियाणां विपत्तयो प्रवृत्तयश्चेति लोकप्रसिद्ध व्यभिचारं दर्शयति / अतस्तत् कृतमपि लोकप्रतीत्या पूर्वनियतिस्थत्वादकृतम् , पूर्वमेव नियत्या तथा स्थितत्वात् / विनष्टमप्यविनष्टं तथा नियत्योत्तरकालं कपालादित्वेनावस्थितत्वात् / कपालादित्वेनैव घटस्य विनाशात् / एवं तु विनश्येदित्यादि / यदि प्रविशीर्णो विशीर्य विशीर्यमाणो विशीर्णो वा तां नियति कपालादिक्रमापत्तिरूपघटविनाशां नापद्यते खरविषाणवदत्यन्ताभावी भवेन्न वा विनश्येद् घटत्वेनैव तिष्ठेत् ततो विनश्येत् / न त्वेवमस्ति, तस्मान्न विनाशः / लक्षणतो ह्यन्यथा नाविनाशः। स च नियतेरलङ्घयत्वात् कपालाद्यवस्थानरूपायाः / एवमुत्पत्तिरपि / तथा चाम्रबीजेत्यादि / दृश्यन्त इति वर्तते / त्वया नियत्या भिन्नानां मूलाङ्कुरपत्रनालकाण्डशाखाप्रशाखास्कन्धपुष्पादीनां व्यवस्थावकाशक्रमेण व्यवस्थितपूर्वरूपैव प्रवृत्तिः / रक्तश्यामादिवर्णानामाम्रफलस्य तुवराम्लमधुरादीनां च रसानां तेषां तेषामिति / अवस्थायामवस्थायां ये ये भवन्त्यन्येऽन्ये तेषां तेषां विद्यमानानामेव नियतानाम् , किमिव ? मायाकारपताकिकावत् / यथा मायाकारः पताकिका गुलिकादिरूपीकृत्य पूर्वग्रस्ताः क्रमेण स्ववदनानिष्काशयति नानावर्णनानाकारास्तथेहाप्याम्रबीजे। यावदानं नियतिप्रवृत्तिफलावस्थामनुभूय पुनर्बीजमेव तस्मादपि वीजात् पुनरपि तथैवेत्यङ्कुरादिप्रवृत्तिं प्रागभिहितां दर्शयति-सेयं व्यवस्थिता नियतिसन्ततिरनाघनन्ता / स्यान्मतम्-ननु दग्धे बीजेऽङ्कुरायत्यन्ताप्रादुभोवान्नियतिकृतप्रादुभोवतिरोभावव्यभिचार इति / अत्रोच्यते-दाहनियत्युदयेऽपि साम्प्रति नियतैवान्यथा च दृश्यन्त इति वर्तते / कास्तास्तथातथाप्रादुर्भावतिरोभाववृत्तयः ? केषां यवतिलभस्मादीनामन्यादृग्यवतिलभस्मेत्यत्रापि प्रादुर्भावतिरोभाववृत्तयो नियता एव / ताश्च पुरुषकारेणाप्युल्लङ्घयास्तत्त्वान्तरेण सिद्धाः / पुरुषकारं चान्तरेणासिद्धाः। किं कारणम् ? पाककालस्यापि नियतिदर्शनात् , पष्टिकाः पष्टिरात्रेण पच्यन्त इत्युदाहरणानि गतार्थानि / देशकालकर्तृकरणादिनियत्यैव पाकादिदर्शनात् / एवं चेत्युन्नयति / अनेनोक्तविधिना व्यवस्थित एवार्थे अव्यक्तस्यैवार्थस्य तत्र व्यक्तेः। सर्वनियतमेव / तत्तत्तस्य स्वव्यक्तेर्व्यतिरेकमतिः / पुरुषस्य सर्वकाले व्यवस्थितनियतादादन्यो मृद्रव्याद् घटो मया कृत इति मिथ्याभिमान एव पष्टिकादयो वा केदारादिसंस्कारविधिना पाचिता इति / यसान्ननु नियतौ किञ्चिन्नास्ति / सर्व १°मात्रक-घ। 2 षाडवा क-ख।

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384