Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ 196 नयचक्रम् / [विधिविधिनयेदिव्यतिरेकेण घट एवेति / खतोऽपृथग्भूतेन भवनेन / ततः पटादिभेदेन भवनस्य कर्ता घट एवेति / अत्रोच्यते-न मावस्यैव तथातथाभवनात् न क्रमो घटस्य भवनं पटस्येति भेदव्यपदेशो नास्तीति / स पुनरुपचरितो घटादिभिरमिन्नस्सैकस्य भावस्यैव तथा तथा तेन प्रकारेण घटपटादिना भवनात् / अन्यथा पटादयो न भवन्त्येव / भवनव्यतिरिक्तत्वादित्युक्तम् , स एव हि मावो घटपटादिर्भवति हस्तादिभवनकारणयोः पुरुषभवनकारणवत् / घटादीनां भावाव्यतिरेकात् पुरुषाव्यतिरिक्तहस्तादिभवनवदिति / तद्दर्शयति-न हि हस्तादौ भवति कुर्वति वा देवदत्तो न भवति न करोति वा / हस्तादौ भवनकारणयोः कर्तृत्वे प्रतिपद्यमाने तत्समुदायस्यावश्यं तत्प्रतिपत्तेः / समुदयसमुदायिनोधानन्यत्वात् / उपसंहरति-अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादिरिति / भवने प्रस्तुते करोतिग्रहणं किमर्थम् ? / सर्वधातूनां भवनार्थत्वप्रदर्शनार्थम् / तत आह'यं तं भुवोऽर्थमभिदधति सर्वधातवः' इति / एतस्माद्भावान पटादिभिन्न इति / तच्च प्रत्यस्तमितनिरवशेषविशेषणं भवनम् , निमग्नानि विलीनानि प्रत्यस्तमितानि तत्रैव भावे निरवशेषाणि विशेषणानि स्व इति पर इति वा घटपट इत्यादि वा तत्र सर्ववस्तुभेदास्तदेव भवनम् / सर्ववस्तूनां मूलदलिकसर्वविम्बसामान्यं मुद्राप्रतिमुद्रान्यायेन भिद्यमानानां आत्मरूपाणां स्फटिकवदनेकधा दृश्यमानानां बिम्बभूतानां प्रतिबिम्बभूतानां च सामान्यमभिन्नं बीजमित्यादि तत्स्वरूपवर्णनान्येवंप्रकाराणि निर्विशेषणस्याग्रंशपरिकल्पनयेति / तत्कथं भाव्यते ? इति चेत् , उच्यते / तदेव हि भवनं व्रीह्यादीत्यादि, यावत् साधनमेकं भवनमेव ब्रीहिबीजम् / आदिग्रहणादम्बुक्षेत्रकालाधनुरादि वा / तदेव च मृदादि मृल्लोष्टवज्राश्मसिकतादि च भवनमेवेति वर्तते / साध्यं साधनं च भवति / पुरुषवादिव्याख्यानन्यायेन स्वयमेव विश्वमादि वर्तते / यथा तदभिन्नकतकरणादिसाधनं साध्यं च तथा भवनमेवात्माव्यतिरिक्तं साधनं साध्यं चैकमेव तथा तथा अहेयमपरित्याज्यम् / भवनमेव व्रीह्यादिविकल्पानन्त्येऽपि तदवस्थमेवाप्रच्युतमात्मस्वरूपाद्भवनात्। सदा सर्वकालम् / को दृष्टान्तः 1 हस्त्यादि यावद्भवनवत् / यथा घटादेरभिन्नतया पुरुषोहस्त्यश्वपर्वतसरित्समुद्रादिप्रपञ्चानभिनयति, स्वतःसृजत्युपसंहरति च / तथातथाभवनात् चेतनहस्त्यादयोऽन्ये ततः केचिद्भेदेन भवन्ति हस्त्यादिप्रपञ्चेन तु पुरुष एव हस्त्यादिम॒दादिश्च भवति / आदिग्रहणाचित्रलेप्यकाष्ठपुस्तादिर्भवति / तथा भवनमेव पृथिव्यम्बुमृदादिर्भवति / न भेदः कश्चिद्भवनादेघटादेः / किं कारणम् ? एकत्रैवोपयुक्तार्थत्वात् / घटादिरभवनस्तस्याभवनस्य भेदस्यासत्त्वमेव / भावाद्भिन्न १त्वं ग। २'दाभात°। ३°कन्दली ग। 4 'विव ग। ५°पूग। 6 व ग / 7 च ग / 8 दिग-ङ / 9 °भितया ग। नय° घ। 10 °स्तका ग। 11 °वो ग।
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384