________________ 196 नयचक्रम् / [विधिविधिनयेदिव्यतिरेकेण घट एवेति / खतोऽपृथग्भूतेन भवनेन / ततः पटादिभेदेन भवनस्य कर्ता घट एवेति / अत्रोच्यते-न मावस्यैव तथातथाभवनात् न क्रमो घटस्य भवनं पटस्येति भेदव्यपदेशो नास्तीति / स पुनरुपचरितो घटादिभिरमिन्नस्सैकस्य भावस्यैव तथा तथा तेन प्रकारेण घटपटादिना भवनात् / अन्यथा पटादयो न भवन्त्येव / भवनव्यतिरिक्तत्वादित्युक्तम् , स एव हि मावो घटपटादिर्भवति हस्तादिभवनकारणयोः पुरुषभवनकारणवत् / घटादीनां भावाव्यतिरेकात् पुरुषाव्यतिरिक्तहस्तादिभवनवदिति / तद्दर्शयति-न हि हस्तादौ भवति कुर्वति वा देवदत्तो न भवति न करोति वा / हस्तादौ भवनकारणयोः कर्तृत्वे प्रतिपद्यमाने तत्समुदायस्यावश्यं तत्प्रतिपत्तेः / समुदयसमुदायिनोधानन्यत्वात् / उपसंहरति-अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादिरिति / भवने प्रस्तुते करोतिग्रहणं किमर्थम् ? / सर्वधातूनां भवनार्थत्वप्रदर्शनार्थम् / तत आह'यं तं भुवोऽर्थमभिदधति सर्वधातवः' इति / एतस्माद्भावान पटादिभिन्न इति / तच्च प्रत्यस्तमितनिरवशेषविशेषणं भवनम् , निमग्नानि विलीनानि प्रत्यस्तमितानि तत्रैव भावे निरवशेषाणि विशेषणानि स्व इति पर इति वा घटपट इत्यादि वा तत्र सर्ववस्तुभेदास्तदेव भवनम् / सर्ववस्तूनां मूलदलिकसर्वविम्बसामान्यं मुद्राप्रतिमुद्रान्यायेन भिद्यमानानां आत्मरूपाणां स्फटिकवदनेकधा दृश्यमानानां बिम्बभूतानां प्रतिबिम्बभूतानां च सामान्यमभिन्नं बीजमित्यादि तत्स्वरूपवर्णनान्येवंप्रकाराणि निर्विशेषणस्याग्रंशपरिकल्पनयेति / तत्कथं भाव्यते ? इति चेत् , उच्यते / तदेव हि भवनं व्रीह्यादीत्यादि, यावत् साधनमेकं भवनमेव ब्रीहिबीजम् / आदिग्रहणादम्बुक्षेत्रकालाधनुरादि वा / तदेव च मृदादि मृल्लोष्टवज्राश्मसिकतादि च भवनमेवेति वर्तते / साध्यं साधनं च भवति / पुरुषवादिव्याख्यानन्यायेन स्वयमेव विश्वमादि वर्तते / यथा तदभिन्नकतकरणादिसाधनं साध्यं च तथा भवनमेवात्माव्यतिरिक्तं साधनं साध्यं चैकमेव तथा तथा अहेयमपरित्याज्यम् / भवनमेव व्रीह्यादिविकल्पानन्त्येऽपि तदवस्थमेवाप्रच्युतमात्मस्वरूपाद्भवनात्। सदा सर्वकालम् / को दृष्टान्तः 1 हस्त्यादि यावद्भवनवत् / यथा घटादेरभिन्नतया पुरुषोहस्त्यश्वपर्वतसरित्समुद्रादिप्रपञ्चानभिनयति, स्वतःसृजत्युपसंहरति च / तथातथाभवनात् चेतनहस्त्यादयोऽन्ये ततः केचिद्भेदेन भवन्ति हस्त्यादिप्रपञ्चेन तु पुरुष एव हस्त्यादिम॒दादिश्च भवति / आदिग्रहणाचित्रलेप्यकाष्ठपुस्तादिर्भवति / तथा भवनमेव पृथिव्यम्बुमृदादिर्भवति / न भेदः कश्चिद्भवनादेघटादेः / किं कारणम् ? एकत्रैवोपयुक्तार्थत्वात् / घटादिरभवनस्तस्याभवनस्य भेदस्यासत्त्वमेव / भावाद्भिन्न १त्वं ग। २'दाभात°। ३°कन्दली ग। 4 'विव ग। ५°पूग। 6 व ग / 7 च ग / 8 दिग-ङ / 9 °भितया ग। नय° घ। 10 °स्तका ग। 11 °वो ग।