________________ विवर्त्तवादः] न्यायागमानुसारिण्यलङ्कृतम् / 195 खपुष्पवत् / व्यावर्त्यस्य सत्त्वेऽनुमानान्तरमप्याह-किश्चित्त्वात् वस्तुत्वादर्थत्वादादिग्रहणात् प्रमेयज्ञेयसत्त्वादिभ्योऽपि दृष्टान्तः स्ववदिति, यथा स्वव्यावाद्विभक्तत्वात् किञ्चिद्वस्त्वर्थः प्रमेयं ज्ञेयं सच्च तथा व्यावर्त्यमपि सत् ज्ञेयम् , प्रमेयमाँ वस्तु किश्चिद्वा प्रसक्तत्वादेव तस्मात् तद् भवेदेव / किं चान्यत्-अयं च स्वभाव इत्यादि / अयं च त्वदिष्टः स्वशब्दविशिष्टो भावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा?। यदि व्यापी सर्वगत एक एव, तस्मिन् व्यापित्वे त्यक्तवपरविशेषणं स्यात् एकरूपत्वात् / तस्य पररूपाभावात् स्वशब्दोपादानं परशब्दोपादानं च निरर्थकमेव / अथ वस्तुनि वस्तुनि परिसमाप्तेः प्रतिवस्तु, तत्प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन ? अलोकवादात् / लोकवादे हि घटस्य घटत्वमेव स्वभावो नान्यः, पटस्य पट एवेति श्रूयते / घटादिपृथग्भूतो न कश्चिदेक इति / स यदि तथा प्रतिवस्तु कल्प्यते न किञ्चित् तेन लोकवादाभिन्नफलेनार्थः कल्पितेन, तस्मान्नेकः कश्चित् स्वभावो यथा पूर्वस्वभाववाद्युपवर्णितः सिध्यति / किं तर्हि ? लौकिक एव सिध्यति / किं चान्यत्-खभावाभाव एव प्रसक्तः / तद्यथा-प्रत्येकमात्रवृत्ति च वस्तु घटायेवं घटादीनि घट एव घटः, पट एव पटः। पटे घटो नास्ति न घटे पट इति, इतरेतराभावात् / परस्परमखभवनपरिग्रहः कृतो भवति / ततः परस्परमखभवनपरिग्रहात् कुतः क्व चासौ स्वभावः स्यात् / / यद्युपपत्तिद्वारेणार्थस्तत इदमुपपत्तिमुखमस्य भावविषयैकार्थे स्वत्वे स्वत्वादनन्यो भावः। य एव भावः स एव स्व इत्यनयोरनर्थान्तरत्वमेवेति / सत्यम् , न किञ्चिदन्यत्वं नामेति / इतिशब्दो हेत्वर्थे / ततः किमत्र भेदेन क्रियते ? / घटादिना पटादिभावविशिष्टेन द्रव्यार्थस्वरूपस्याभिन्नत्वात् / भेदेन यदुच्यते घट इति पटादिना भावव्यावर्तनार्थभेदेन पटस्य भावो न पटस्येति खो भावो न परभाव इति च पुरुषादिवादवद्भेदान्तरकल्पनेन ? द्रव्यार्थस्वरूपविरोधिना भेदाधारेणेति / सोऽपि यदीति / सोऽपि च घटादिभेदो भावो वा घटे भावो वा? यदि भावः, भवतीति भाव एव, भावस्वरूपादभिन्न एव / अतः कोऽयं भेदो नाम घटादिभावव्यतिरिक्तः ? इति स्वयमेवोक्तो भेदाभावः / अथ न भवति भेदः भावो न भवति, नानुभवति भवनं न वाभाव एवाभ्युपगम्यते, तदस्तित्वमेव नाभ्युपेमः, अभवनात् खरविषाणवत् तत् / इतर आह-ननु घटस्य भाव इति व्यतिरेकषष्ठ्या व्यपदिश्यमानत्वात् पटा१ निरस्त ग। 2 निश्ची ग। ३न्ये ध। 4 नवः ग। ५°भिमन्न ग / 6 वृत्तनाचा ग। ७°भ्युपगमः ग। ८°णात्मवत् तत् घ। .