________________ 194 नयचक्रम् / [विधिविधिनयेभवतीत्यादि / तत्र स्वशब्दभावशब्दयोरर्थव्युत्पत्तौ भावशब्दार्थव्युत्पत्तिस्तावत् भाववादिनः स्वभाववादिनश्चावयोः शब्दार्थव्युत्पत्तिर्भावशब्दस्य भवतीति भावो भूयतेऽनेनेति वा भाव इति तुल्यता / तस्यां च तुल्यतायां न कश्चिद्विसंवादः। खशब्दार्थो वा विशेषणत्वेन प्रवर्तमानश्चिन्त्यः / सोऽस्वव्यावर्तनार्थः। न स्वो भावः अस्त्रो भावो न भवतीत्यस्खव्यावर्तनं तस्यार्थः स्वशब्दश्च भावस्यैवात्मपर्यायस्य वाचकः / तस्माद्विशेषणत्वादस्वव्यावर्तनार्थः सम्पद्यते / तदर्थत्वाचेतरेतराभावमात्रविषयः / खेः परो न भवति परोऽपि स्वो न भवतीति स्वपराभावादितरेतराभावार्थाभावः / भावाभाव इति यावत् / ततश्चार्थाभावार्थत्वादस्वभवने वर्तेताऽस्वो न भवतीत्येषोऽस्य मुख्योऽर्थो जायते / न तु भावस्वरूपप्रतिपादनमिति / भावाथोसंस्पशोन्न किश्चिदनेन / स्यान्मतम्-भावमपि ब्रुवत इत्येतचायुक्तम् / तस्मात् स तत्रोपक्षीणशक्तित्वात् स्वभवनस्य प्रयोजकः / अतिभार एष हि शब्दस्य यदेकः स्वशब्दः परभवनव्यावृत्तिखभवनप्रतिपादनं च युगपत् सकृदुच्चारितः कुर्यादतो निःप्रयोजको न वाचक इत्यर्थः / अर्थो वाच्यस्वशब्दस्य स्वशब्दं न प्रयोजयति / शब्दवृत्तिविरोधात् तस्मादखभवनव्यावर्तनमेवार्थः / एतदपि वा स्वभवनव्यावर्तनस्वशब्दस्य नैवास्ति, किन्त्वर्थाद्गतेरभ्युपेत्यैतद्विचारितम् , किमर्थ नास्तीति चेत् ?, उच्यते-अस्वस्याभूतत्वात् भावस्यैव भूतत्वादित्यर्थः। स्वशब्दार्थाभावान्न स्वशब्दं प्रयोजयति वन्ध्यापुत्रवत् / तदेभावाद्भावशब्दव्यतिरिक्तार्थविषयाभिमतः स्वशब्दोऽपि नास्तीत्यत आह न चाभूतो व्यावर्तनाय प्रभवतीति वाक्यशेषः, अभूतत्वात् वन्ध्यासुतवत् / अथ सोऽर्थोऽस्वस्तथाभूत एव / ततस्स भाव एव / भावादेव तस्य स्वशब्दवाच्यार्थस्य भावशब्दवाच्यार्थवत् / किं व्यावृत्त्यानर्थिकयेति स्वशब्दस्य व्यावाभावाव्यावृत्तिरनर्थिका / व्यावत्योथाभावश्च तस्य भावत्वादित्युक्तम् / स्यान्मतम्-तस्य व्यावर्त्यस्याभावाद् व्यावय॑ता विशेषणार्थवत्ता चेत्येतच्चायुतम्, तद्भावत्वप्रसङ्गात् / न ह्यसतः प्रसङ्गोऽस्ति / अप्रसक्तस्य च व्यावर्त्यता नास्त्यब्राह्मणवचने ब्राह्मणत्ववत् / न ह्यब्राह्मणवचने ब्राह्मणोऽप्रसक्तो व्यावर्तते / यथोक्तम्-'नजिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थः' इति / भावशब्दार्थव्यावृत्त्यर्थ कर्थोपादानात् / यदयं भवतीति भावशब्दविशिष्टस्य स्वरूपोक्तः स्वशब्दोऽप्यनर्थकः / तस्माद्यदपि व्यावय॑ते तदपि च भवेदेव / व्यावर्त्यत्वादब्राह्मणवत् वैधर्येण नासत् / तत् कुतः ? असतोऽअसक्तत्वादप्रसक्तस्स चाव्यावर्त्यत्वात् . १°दर्य ग-ङ। 2 स्वपरो ग। 3 स्वभ ग। ४°ऽमुष्या ग। 5 तत्र ग / 6 वग। 7 दिग।