________________ विवर्त्तवादः] न्यायागमानुसारिण्यलङ्कृतम् / 193 ब्रुवतां पुरुषनियतिकालखभाववादिनामात्मवस्तुनो द्रव्यार्थवृत्तस्य तत्परमार्थस्य तत्त्वानां सर्वैकत्वनित्यत्वकारणमात्रत्वसर्वगतत्वानां धर्माणां प्रतिपादनार्थमुद्यतानां वादिनामन्यदवस्त्विति खतो भिन्नान्यार्थाभ्युपगमेनैव तत्प्रतिपादनं नान्यथेति तत्प्रतिपादनार्थी यत्नः। सोऽयमन्यभिन्नरूपोपादानमन्तरेण नास्तीति स यत्नः स्वाभिमतपुरुषाद्यर्थनिराकरणायैव भवति, अभिन्नार्थाऽभ्युपगमात् / कथमिति ? तद्दर्शयति-पुरुषवादे तावज् ज्ञानमयो न रूपादिमयः इति रूपादीनां तत्सुषुप्तावस्थामात्रत्वाभिमतानां तन्मयत्वात् ज्ञानात्मकपुरुषमयत्वात् , तानि च रूपादीनि कार्यात्मनः / कार्यात्मनां तन्मयत्वे चेतनैककारणात्मत्वे कार्यत्वानेकत्वानित्यत्वासर्वत्वानि पुरुषस्यैव प्राप्तानि, तन्मयत्वात् प्रत्येकपरिसमाप्तत्वाच्च तेषां प्रत्यक्षत उपलभ्यत्वाच्च / तस्मात् पुरुषस्यैकमित्यकारणसर्वत्वानि निराक्रियन्तेऽवस्थानां कार्यकारणात्मनां पुरुषमयत्वादिति / उक्तः पुरुषात्मकत्वप्रतिपादनयत्नस्य द्रव्यार्थवृत्तसर्वैकत्वाद्यभिमते निराकरणदोषोऽवस्थाश्रयणात् / अवस्थावच्च पूर्वादिनियत्यादिष्वपीत्यतिदेशेन नियतिकालखभावेष्वपि स्वाभिमते निराकरणम् / तेषामपि दर्शयत्यवस्थावच्चेति / यथा सुप्तसुषुप्तजाग्रद्विमुक्त्यवस्थाभेदेन भिन्नान्यरूपोपादानेनैव स्वाभिमते निराकृतिः पुरुषवादेऽभिहिता, तथा बाल्यादिपूर्वोत्तरावस्थासु तथा नियतिवर्तनास्वभावादिभेदाभ्युपगमादेव स्वाभिमतनियत्यादिनिराकरणं स्वभाववादे / तुशब्दो विशेषणे / विशेषोऽस्य स्खमतनिराकरणदोषात् / अतिशयश्चायम् / किं कारणम् ? आदावेव भंदोपादानात् / इतरे सृष्टिप्रदशेनद्वारेण दूरं गत्वा पश्चाद्भेदमुपाददते / स्वभाववादी पुनरुत्थान एव भेदमुपादत्ते / इत्ययमतिशयः। कुतो भेदोपादानमिति चेत् ? सम्भववव्यभिचारवृत्त्यनुमत्या भावविशेषणस्वशब्दोपादानात् / सोऽतिसम्भविव्यभिचारे च विशेषणम् / यथा नीलमुत्पलमिति। नीलत्वं चेदुत्पले सम्भवति व्यभिचरति च कदाचिदुक्तमपि तद् दृष्टमुत्पले भ्रमरादिषु च नीलत्वमतो विशेषणं भवतीति नीलं च तदुत्पलं च तदिति / एवं भेदवृत्त्यनुमत्या विना विशेषणोपादानाभावात् / तथेहापि भावशब्दो वाच्यस्यार्थस्य खशब्दाभिधेयविशेषणार्थ स्वशब्दोपादानं भेदाधारसम्भवद्व्यभिचारवृत्त्यनुमत्यैव सहितं यथासम्भवानुमत्या विना न विशेषणम्, तथा नान्तरेण व्यभिचारमपि विशेषणं भवति / तत्र व्यभिचारो विरुद्ध्यते द्रव्यार्थवादस्पैक्यादित्यभिप्रायार्थः / तथैव चार्थस्य निरूपणादिति न केवलं स्वशब्दोपादानमात्रादेव भेदोऽङ्गीकृतः। किं तर्हि ? अर्थोऽपि भूम्यादिकण्टकादित्वेन तथा निरूप्यते / उत्तरेण ग्रन्थेन भेदप्राधान्येनैवाभावीकृतेनार्थोऽपि भिन्नो विशेषणत्वेन नोपादातुं योग्यस्तद्यथा-यदयं °वं घ / 2 °वेति क-ख / °वत्वे ग / 3 °ति क-घ / 4 °दा क-ग / 5 °न्द / 6 देनघ। ७°वाक। न० च० 25