________________ 192 नयचक्रम् / [विधिविधिनयेभव्यसंसारस्थानादित्वे सत्यहेतुरन्तो भवति, निर्हेतुकोऽन्त इष्यते / ततो यथा चास्यानादित्वे संसारस्याहेतुरन्तो भवति तथा कस्मात् तस्य विरोधी पुनर्निर्हेतुकहेतुकान्तवत्त्ववद्भव्यकर्मसन्तानस्य निर्हेतुकहेतुकादिसिद्धकर्मसन्तानस्य कस्मान्न भवतीति वाच्यम् / अत्र विशेषकारणस्वभावहेतुवादिनामेव / पुनः स्वभाववादिनः खभाव एवं सर्वत्र कारणं व्यापित्वात् / इतिशब्दो हेत्वर्थे / इत्यतः कारणादित्थं स्वभाव एव शरणं कारणवादिनाम् / कथं कृत्वा ? तदुपायस्वभावो मोक्ष इति सम्यग्दर्शनादिरत्नत्रयोपायसम्पन्नभव्यकर्मसन्तानान्त्यतोच्छेदस्वभावो मोक्ष इति / एवं तावद्भव्यसंसारोच्छित्तावभव्यसंसारानुच्छित्तौ च हेतुवादे चोदिते स्वभावाश्रयेण परिहार उक्तः। एवं सर्वचोद्येष्वतिदेशः / यथा भव्याभव्यसंसारोच्छित्योर्विशेषहेतुर्वाच्य इति चोदिते स्वभावादेवेति व्यवस्थोक्ता / तथा जीवाजीवरूप्यरूपिसक्रियाक्रियत्वाद्विशेषाः / कुत इति चोदिते स्वभावादेव व्यवस्था तस्य समाश्रयणीया / स्वभावानभ्युपगमे त्वित्यादि, यावद्वादहानं ते इति / यदि स्वभावो नाभ्युपगम्यते ततः साधनदूषणाभावस्ततो वादत्यागः / तद्यथापक्षहेतुदृष्टान्तादयः स्वेन भावेन सम्पन्नाः साधनम् , पक्षः साध्यत्वेनेप्सितो यदि विरुद्धार्थानिराकृतः हेतुपक्षधर्मः सपक्षे सति न पक्षाव्यावृत्तः, दृष्टान्तः साध्यानुगतहेतुदर्शनम् , असति साध्ये हेत्वसत्त्वप्रदर्शनं च तद्विपर्यये तदाभासा इति संसाधनं खेन भावेन भवति / तत्साधनदोषोद्भावनं दूषणं तदन्यथोक्तिदूषणाभासा इति च खेन भावेन व्यवस्थितमभ्युपगम्य साधनं न दूषणं च साभासं विवदिपुरसि संवृत्तोऽन्यथा न साधनं न दूषणं च स्वभावोपेतावयवार्थवादित्वादिति वादत्यागस्त प्राप्तः / तस्मात् स्वभाव एव प्रभुत्वविभुत्वाभ्यां कारणं जगत इति // // एवं तावत् स्वभाववादः॥ अनया च दिशा शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्तमात्रमिदं जगदिति / यथोक्तम् अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् / निवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ ___ इत्यादि कारणवादा भिद्यन्ते संज्ञादिभेदात् / ते पुनः सर्वेऽपि परमार्थद्रव्यार्थस्य विधिविधिनयस्य स्वरूपमस्पृशन्त एव प्रवर्तन्ते यस्मात् संक्षेपेणायं सर्वोऽपि यत्नः / सोऽन्यभिन्नः स्वरूपोपादानेनैव स्वाभिमतनिराकरणाय भवति / तद्यथापुरुषवादिनः पुरुषादन्यदवस्तु अपुरुषत्वाद्वन्ध्यापुत्रवत् / तथा नियतेरन्यदनियतित्वात् , वर्तनादन्यदवर्तनात्वात् / स्वभावादन्यदखभावत्वात् वन्ध्यासुतवदवस्त्विति १°वत् ग।य°ग। स्थाऽस्य घ।३नं न दूषणत्वम् ग / 4 भासांग। 5 °वं ग।