________________ खभाववादः] न्यायागमानुसारिण्यलङ्कृतम् / 191 प्रभादिभूमयो द्वीपाः समुद्राः पर्वताद्याश्च नेयाः / स चैकः स्वभावः पूर्ववदशेषनि- . त्यत्वलक्षणयुक्तोऽपि कर्तृकर्मकरणादिकारकभेदं स्वशक्तिभेदादेव लभते / तद्यथास्वसाधनविशेषस्वभावादेव विशेषो भवति / स एवानुभवति, सोऽनुभूयते / एतव्याख्यार्थोदाहरणत्वेन कारकद्वयं 'कर्तृकर्मकारकभेदा एव शेषकारकाणि'इति दर्शनार्थ सोऽनुभवति कृत्वा फलमनुभवति कर्मफलं भुङ्क्ते, सोऽनुभूयते खभावभेदेनात्मनैव भुज्यतेऽपि स एव / कथमनुभवत्यनुभूयते चेति ? तदर्थप्रदर्शनार्थमाहखद्रव्येत्यादि / स्वयमेव द्रव्याण्यात्मैव कर्मकर्मित्वस्वभावानि द्रव्याणि संयुज्यन्ते वियुज्यन्ते च, तेषामेव स्वभावभेदानां द्रव्याणां संयोगविभागौ बन्धमोक्षौ देशसविकल्पौ, तद्विकल्पविचित्रसुखदुःखजन्ममरणवैषम्ये, तयोः स्वाभाव्येन स एव भवतीति संसारमोक्षौ स्वभावतः / यथा व्रीहिरेवाङ्कुरत्वाद्यनुभवनात्माऽनुभवत्यनुभूयते चान्योऽन्यसंयोगवियोगविपरिवर्तन कर्मकर्मिस्वाभाव्येन विपरिवर्तमानोऽपि स्वभावात्माऽव्याबाधः साध्यासाध्याद्वैतरूपवत् स्वजात्यपरित्यागादद्वैतत्वात् व्यवस्थित एव सर्वत्र भव्याभव्यजीवराश्योः / को दृष्टान्तः ? / यथा कनकाश्मनि सुवर्णम् / द्विधाविर्भवन् क्रियाक्रियाभ्यां तत्स्वभावः, क्वचिन्नास्त्येव कनकमिति सोऽपि स्वभावः / तथा केषांचित् स्वयमेवापगमात्मविशुद्ध्याविर्भावः कैवल्यम् , यथा भरतमरुदेव्यादीनामिति / अत आह-तदृष्टान्तत्वेनान्तरेणापि धातुर्वादकनकाविर्भावस्तथा कर्मविवेकस्वाभाव्यादेव भव्यजीवानामात्माविर्भावः / सम्यग्दर्शनज्ञानपूर्विकया तु क्रियया प्राचुर्येण कैवल्यप्राप्तिर्धातुदक्रिययेव कनकोत्पत्तिरिति / स्वभाववेचित्र्यादेव तथा केषांचिदनाविर्भाव एव कमोविवेकवाभाव्यात् / एवं च तदित्यादि / एवं च कृत्वा स्वभावनयबलेनात्मानो जीवा द्विविधाःभवसिद्धिकाश्चाभवसिद्धिकाश्चेति / तदुभयस्वभाववर्णनात् / अभव्यजीवकर्मणोरित्यादि / भव्यस्य तु विशुद्धीत्यादि च गतार्थ वाक्यद्वयम् / अनादेर्जीवकर्मसन्तानस्य व्यवच्छेदाव्यवच्छेदौ खभावादेवेति / नात्र कश्चिद्भव्यकर्मसन्तानसान्ततायामभव्यकर्मसन्तानानन्ततायां वा हेतुः शक्यो वक्तुमन्यः स्वभावात् / यदि हेतुरन्यो मृग्येत तेनानन्त्यमस्यापि स्यात् / कस्य ? भव्यकर्मसन्तानस्याप्यनन्तत्वं स्यात् / कस्मात् 1 अनादित्वात् आकाशवत् / स्वभावमनिच्छद्भिरनादित्वहेतुरभ्युपगन्तव्यो जायते / सोऽनिष्टानन्तत्वसाधनाय भवति / अधुनादित्वहेतुसद्भावेऽपि तत्सान्ततेष्टौ वाकाशसान्ततेति / अत आह-तदन्तवत्त्वे आकाशमपि सान्तं स्यादनादित्वाद्भव्यकर्मवत् इति / स्वभाव एवान्तत्वे कारणं न हेतुरन्योऽस्ति हेतुवादेन विमृग्यमाणः / अथाप्यस्य तेषां निश्चय ग। 2 नान्यत्र ग /