________________ 190 नयचक्रम् / [विधिविधिनयेकादिवत् / यथाक्षिनिमेषोन्मेषावनर्थकावबुद्धिपूर्वी च पुरुषस्य / आहृताहाररसरुधिरमांसमेदोऽस्थिमजशुक्रादित्वेन विभजनं, कण्टकतीक्ष्णभवनं चेत्येवमादिप्रवृ. त्तयः तथा घटादिफलस्वभावानुरूपाः प्रवृत्तयोअतर्कतः एवेति / एवं चेत्यादि। एवं च कृत्वा लोकप्रसिद्धिवशाद्यदि हेतुतो यद्यहेतुतो यथासंख्यं घटकण्टकादिबुद्ध्यबुद्धिपूर्वनिवृत्ताभिमतं यदस्तु तदस्तु / उभयथापि स्वभावानन्यातिवृत्तिः। एवमेतदात्मभवनमनादिप्रवृत्तं कारणं जगतः, पृथिव्यब्बीजाङ्करादिषु स्थिरद्रवादिखभावाविर्भावतिरोभावादिरूपेणैकं नित्यं च नोत्पद्यते, न विनश्यति, न चान्यथा भवतीति प्रतिपत्तव्यम् / उत्पादविनाशविपरिणामानामनादिप्रवृत्तस्वभावकारणविरोधित्वादेव च / तत्रानादिप्रवृत्तखभावेत्यादि यावद्विपरिणामो वेति पूर्वपक्ष उत्तानार्थः / उत्तरपक्षस्तु ततोऽनादिप्रवृत्तकारणस्वभावव्यत्यासे इति प्रत्युचारणमात्मभवनविपर्यये दोषः / हिताहितप्राप्तिपरिहारार्थशास्त्रव्यर्थता, धर्मार्थकाममोक्षफलप्राप्त्युपायविधानार्थानि तदपायपरिहारार्थानि च शास्त्राणि व्यानि स्युः / किं कारणम् ? पुरुषस्य क्रियायाः फलस्य च तथा अस्वभावत्वात् / कर्तृकरणकमोदिसाधनानां तदङ्गसम्पन्नायाः क्रियाया धमार्थकाममोक्षाणामन्यतमस्य तत्फलस्य वान्योन्यानुरूपेणानात्मत्वादित्यर्थः / परस्परानुरूपाऽनभ्युपगमेऽन्यथोत्पादोऽन्यथा विनाशोऽन्यथा विपरिणामश्चाननुरूपेणेति यावत् / ततोऽन्यथोत्पादविनाशविपरिणामेभ्य इति पुरुषादिसाधनक्रियाफलानी तथानात्मत्वं समर्थयति / घटाथै प्रवृत्तेषु घटोत्पत्त्यर्थ प्रवृत्तेषु तत्पट उत्पद्यते / तद्विनाशार्थ प्रवृत्तेष्वविपरिणामश्चेति खभावानियमान्नोत्पादविनाशविपरिणामाः सन्ति, यदि स्युरयथाभिप्रेताः स्युः / स्वभावानियमादिति / स्वभावापरिग्रहे शास्त्राणां अर्थवत्ता न युज्यते / अतस्तस्मात् सिद्धशास्त्राणां अनतिशक्यत्वादनिष्टत्वाचानर्थक्यस्य शास्त्रार्थवत्त्वसिद्ध्यर्थं च घटादेः कारणमन्वेषणीयम् / तच्च कारणमन्विष्यमाणं शास्त्रार्थवेत्तया वरमिदमेव कारणं स्वभावः, नातोऽन्यद्विमर्दरमणीयतरमस्ति, कुतोऽन्यन्नास्ति ? / यत्तत्कारणं स्व एवात्मीय एवात्मैव वा भावः। कतमोऽसौ संग्रहेण ? द्विधा प्रतिवस्तु / जीवाजीवदवस्थितो योऽस्ति स भावः, य आत्मा स भावः / स भावः स्वभाव इति च परभावनिराकरणार्थमुच्यते / यथोक्तम्-"किमिदं भंते ! अस्थि त्ति वुच्चति ? गोयमा ! जीवा चेव अजीवा चेव / " तथा 'किमिदं भंते ! समए त्ति वुचति ? गोयमा ! जीवा चेव अजीवा चेव। एवमावलिकोच्छासनिःश्वासप्राणस्तोकलवमुहूर्ताहोरात्रकालविभागाः, रत्न१ पात्रे ग / 2 वनस्पति ग / 3 °विन्यासे ग / 4 °लेन ग / 5 °स्वत्व ग / 6 'दस्ति ग / 7 किमिदं भगवन् ! अस्तीत्युच्यते ? गौतम! जीवा एव अजीवा एव। . किमसौ भगवन ! समय इत्युच्यते ? गौतम! जीवा एव अजीवा एव /