________________ स्वभाववादः] न्यायागमानुसारिण्यलकृतम् / 189 कटुकरसः कटुविपाकः उष्णवीर्यश्चित्रकः तद्वद्दन्ती कटुकरसा कटुविपाका उष्णवीर्या / विशेषस्त्वस्याश्चित्रकात् प्रभावेन विरेचयति / प्रभाव इति स्वभावपयोंयत्वाद्रसादेपि स्वभावत्वात स एव सामान्यविशेषाभ्यां तथा तथा वण्यत इति / तस्माद्यत् त्वयोक्तं 'क्रियातो घटाद्युत्पत्ति'रिति / तत्र पृथिवीमृत्पिण्डशिवकादिक्रमापत्तव्यघटात्मनः स्थयात्मवन्न स्त उत्पत्तिविनाशावुक्तहेतुत्वात् / अस्माद्धेतोः कथं घटोत्पत्त्यादि सम्भाव्यते ? आदिग्रहणाद् वक्ष्यमाणो विनाशविपरिणामावपि कथं सम्भाव्यते ? / नैव सम्भावनीयं तत्रयमित्यर्थः / स्यान्मतम्-कुलालप्रयत्नप्रवृत्तिदण्डचक्रसूत्रोदकमृदादीनां पुरुषाभिसम्बन्ध्यनुरूपघटाद्युत्पत्तिविनाशविपरिणामफलैः, सम्बन्धदर्शनान स्वभाव एवेत्येतचायुक्तम् / यसात् प्रवृत्तिमृदां स खभाव एव / यथोक्तं प्राक् 'निमित्तानां निमित्तता स्वाभाविकी' इति / तस्मात् स्वभाव एव / किं चान्यत्-फलस्वभावानुरूपाः प्रवृत्तयो त एव व्यवस्थिताः स्वभावबलादेव मृत्पिण्डदण्डादिभिरेव घटो भवतीति ज्ञात्वा चक्रमूर्ध्नि मृत्पिण्डं संस्थाप्य दण्डग्रहणचक्रभ्रमणादिव्यापारा घटफलयोग्याः क्रियास्तदनुरूपा व्यवस्थिताः / तथा तुरीवेमशलाकादिसाधनाः सूत्रोपादानतन्तुसन्तानपाचनवपनक्रियाः पटफलस्वभावानुरूपा व्यवस्थिताः / एवं कृषिसेवावणिज्यपरिव्रज्यादिप्रवृत्तयः स्वभावमेव हेतुं समर्थयन्त्यो दृश्यन्ते लोके व्यवस्थिताः। आसां नाप्युत्कर्षों नाप्यपकर्षः कश्चित् / फलानुरूपाः प्रवृत्तयः / प्रवृत्त्यनुरूपं फलं तत्र तत्रेति व्यवस्थितफलप्रवृत्तिता स्वभावादेवेति / स्यान्मतम्-व्यवस्थितप्रवृत्तिफले स्वभावे भावे पुरुषप्रयासस्तद्यनर्थक इति चेत्, सत्यमेतदिति / प्रयासोऽनर्थकः। यथा त्वं ब्रूषे तथैव स्वभावसामर्थ्यादेव प्रवृत्तेर्निवृत्तेश्च फलसिद्ध्यसिद्ध्योरनर्थक एव प्रयास इति त्वया सदोषाभिमतोऽप्ययं पक्षो मया तत्त्वभावभ्रंशभयान त्यज्यते / इत्थमनर्थकोऽप्यसौ प्रयासः पुरुषस्यास्त्येव सन्नेव स्वभावादेव / यथोक्तम्-'स्वभावतः प्रवृत्तानां निवृत्तानां स्वभावतः / __नहि कर्तेति भावानां यः पश्यति स पश्यति // इति / प्रवृत्तिनिवृत्त्योर्भावानां स्वभावस्वातत्र्यमेव / स हि स्वो भावः आत्मा वस्तूनां निवृत्तानामित्युक्तत्वात् प्रवृत्तिनिवृत्त्योरानर्थक्ये किं कृता किंफेला वा प्रवृत्तिरतः खभावानुरूपप्रवृत्तिप्रतिज्ञाव्याघात इति चेत् / न, व्याघातः तत्स्वाभाव्यादेव / यस्मात् प्रवर्तितव्यमिति / एवं प्रवर्तन्तेऽप्रतर्कतो वस्तुनि / प्रकृष्टस्तर्कः प्रतर्कः / अनेनोपायेनार्थस्य सिद्धिरिति य ऊहः स तर्कः, न प्रतर्कःअप्रतर्कोप्रतर्कत एव वस्तुनि प्रवर्तितव्यमित्येव प्रवर्तन्ते खभावादेव यथाक्षिनिमेषधातुकण्ट . द्रष्टव्यं 147 तमं पृष्ठम्। 2 °क्तो ग। 3 व त्वा ग। 5 विग।