________________ 188 नयचक्रम् / [विधिविधिनयेप्रागनभिव्यक्तेः। क्रियायाः प्राक् सोत्पत्तिरनभिव्यक्ता अपवरकघटवत् प्रदीपेनेव क्रिययाभिव्यज्यते / नोत्पद्यत इत्यदोषः। सा सत्यग्रहणनिमित्ताभावे। किमिति चेत् ,सा सत्यर्थेऽनभिव्यक्तिरग्रहणनिमित्तानामत्यासन्नविप्रकृष्टव्यवहितसमानाभिहाराभिभवसौक्ष्म्येन्द्रियदौर्बल्यमनोवैयग्र्यपित्तोपघातादीनामभावे सति / किमर्थं भवतीति चेन्मन्यसे / वयमत्र ब्रूमः-खभावादेवेत्यादि / यावच्चक्षुरादिना न गृह्यते / न त्वमाभिरेव तद्वक्तव्यं स्वभावादेव ग्रहणहेतुपु संत्स्वपि सतोऽर्थस्यानभिव्यक्ती स्वभाव एव कारणमिति / कस्मात् ? त्वयैवाभ्युपगतत्वात् 'अतिसनिकृष्टमतिविप्रकृष्टं व्यवहितं वा चक्षुरिन्द्रियं रूपमञ्जनमन्दरादि न गृह्णात्यत्यन्तम्' इत्यत्र केन त्वयैतत् कारणेन प्रतिपन्नमिति पृष्टेनावश्यं स्वभावादिति वक्तव्यम् / अयं हि चक्षुषः स्वभावो यदतिसनिकृष्टमञ्जनादि न पश्यत्यतिविकृष्टं च मेर्वादीति, शेषेन्द्रियाणामपि स्वभावादेवातिविप्रकृष्टाद्यग्रहणं स्वविषयनियमश्चेति / किं चान्यत्-यथा स स्वभावस्तथायमपि यथा चक्षुरादीन्द्रियाणामात्मनोऽत्यन्तमतिसन्निकृष्टाद्यग्रहणं स्वभावः, तथाऽनभिव्यक्ताग्रहणं स्वभाव इति किं न गृह्यते / किं चान्यत्--यथैतत्तथा किश्चिदत्यन्तानुपलब्धिस्वभावमेव भवत्यात्मादि आत्माकाशकालदिगादयः कार्यत एव नियत्यमनुमेयाः पदार्थाः सौक्ष्म्याद्वाटेन्द्रियाविषयास्ते स्वभावास्तत्र नास्त्यात्मा नास्ति कालो धर्माधर्माकाशदिगादयो वार्थो न सन्तीति वृथैव विवदन्ति शाक्यादयः स्वभावभेदमविद्वांसः। तस्माद्यदुच्यते त्वया क्रियातो घटादि निर्वर्तत इति तन्न, पुरुषकामचारप्रयत्नादिभ्यः किञ्चिदपि निर्वर्तते पुरुषात् , तदिच्छातः तत्प्रवृत्तेः। तत्प्रयत्नाद्वीयोदित्यर्थः / आदिग्रहणात् तद्बुद्धेः। न स्वमतियोगादिभ्यः, सर्वत्र व्यभिचारदर्शनात् / किं तर्हि ? भूम्यम्ब्यादिब्रीह्यकुरादिमृद्धटायभिव्यक्त्यनभिव्यक्तिस्वभावो घटोऽपि पृथिव्यादिस्वभाव एव वस्तुत्वात् तदात्मत्वाद् यथा आपो द्रवाः, स्थिरा पृथिवी, चलोऽनिलो, मूर्तिहीनमाकाशमुष्णोऽग्निरित्यादिषु स्वभाव एव / तत्र कुतः कस्यचिदथिनोऽप्येवं वा विपर्यय एव वारम्भक्रियानिवृत्तयः। आपो द्रवा भवन्तु, स्थिरा पृथिवी, चलोऽनिलोऽग्निरुष्णो, वियदमूतं भवत्वित्येवमर्थिनोऽपि पुरुषस्य नारम्भो न चेष्टा न च निवृत्तिर्वा तथा विपर्ययेऽपि मा भूद्र्वं जलं स्थिराभूश्चलोऽनिलोऽनिरुष्णो मूर्तिमानाकाश इत्यारम्भः क्रियानिवृत्तिवो स्वभावस्यान्यथाकर्तुमशक्यत्वात् / एवं घटादिष्वपि योज्यं स्वाभाविकत्वम् / तथा चाहुरिति स्वाभाविकविज्ञापकमाह१व्यत°ग। 2 असख-ग। 3 मदिक-ख। मन्दिघ।