________________ खभाववादः] न्यायागमानुसारिण्यलङ्कृतम् / 187 लादिनिवृत्तौ कण्टकदर्शनाच नापेक्षास्ति स्वभावस्य, किं तूत्पातादिखभावनियमवशादव्यपेक्षितद्रव्यकालादिरपि दृष्टैव कण्टकाद्युत्पत्तिर्न पुनस्तत्स्वभावमन्तरेण सोत्पत्तिरस्तीति तैः स्वभाव एवाव्यभिचाराध्यापित्वाच्च कारणमेषितव्यम् / / किं चान्यत्-अपि चेत्यादि, अपि च त्वया 'भूम्यादिरपि द्रव्यविनिवृत्त्यपेक्षैव / भूम्यादीन्येव वृक्षत्वे कण्टकद्रव्यत्वेन तैक्ष्ण्यादित्वेन च निर्वर्तन्ते / तत्समायोगनिवृत्यपेक्षा कण्टकनिवृत्तिः इति ब्रुवता ननु सैव स्वभावसिद्धिस्त्वयैव वर्ण्यते / किं कारणम् ? भूम्यादिभ्य एव भूम्यम्बुक्षेत्रबीजाङ्कुरादिद्रव्यनिवृत्तिभ्य एव कण्टको भवतीति / तत्स्वभाववर्णनात् अन्यथावभावात् / किमन्यदत्र शक्यं वक्तुं कारणम् ? भूम्यम्बुक्षेत्रबीजाङ्कुरादिभ्य एव कण्टको भवति, न मृत्पिण्डादिभ्य इत्येव तेषां स्वभाव इति खभावस्यैव समर्थनं तदपि तेषां तत्तत्स्वाभाव्यात् / किं चान्यत्-यथा पृथिव्यादीत्यपि यावन्निमित्तानामपि निमित्ताखाभाविकीति / यथैवायं विश्वथा सर्वथानेकप्रकारं बीजाङ्कुरादिक्रमनिवृत्तिः कण्टकादिः पृथिव्यादिस्वभावः पुरुषप्रयत्ननिरपेक्षोऽप्रयत्नत एव भवति / अथवा पृथिव्यादीनामेव प्रागभिहितन्यायेन वृक्षघटादिस्वभावाभ्युपगमाद् यथाखभाव एव / एवं निमित्तमपि घटपटाद्युत्पत्तौ पुरुषकारसाध्याभिमतायां मृत्पिण्डदण्डचक्रसूत्रोदककुलालादिनिमित्तानां निमित्तता सापि स्वाभाविकी, ततो न स्वभावव्यतिरिक्तं किञ्चित् / एवं च सर्वस्य स्वाभाविकत्वेन तत्र कुत उत्पत्तिरपि या प्रागुक्ता त्वया भूम्यादिद्रव्यविनिवृत्त्यपेक्षवोत्पत्तिरिति / सा कुतः ? नास्त्येव कारणम् / तस्मा. नास्ति सा प्रागेवाभिव्यक्तये विचरितलीनावस्थत्वात् तस्मात् सोत्पत्तिः। प्रतिवस्तुखभाव एवायम् / वस्तु वस्तु प्रति प्रतिवस्तु, स्वो हि भावः स्वभावः इति निरुक्त्या प्रतिवस्त्वात्मीयं भावमाचष्टे वयःक्षीरादिवदिति दृष्टान्तः, यथा बाल्यकौमारादिवयोऽवस्थाः पूर्वविरचिता एवाविर्भवन्ति / यथा क्षीरदध्युदखिन्नवनीतघृतावस्थाः / तथा घटादयो निमित्तस्वभावापेक्षाभिव्यङ्ग्यविरचितस्वभावा आविर्भवन्ति / यदि वाऽसावित्यादि यावद्वन्ध्यापुत्रवत् / यदि वासावुत्पतिस्वभावाऽसदभिहिता न स्यादित्थं पूर्वावस्थायामेव / तत उत्तरत्रापि न भवे. * देवाभूतत्वात् वन्ध्यासुतवत् / / अस्यैवार्थस्य भावनार्थमाह-एवं मृदादिष्वित्यादि गतार्थ, यावन्नाकाशादिषु दृष्टा घटादीनां क्रियाया उत्पत्तिरिति चेत् / स्यान्मतम्-दृष्टाविरुद्धमुक्तं त्वया विद्यमानानां घटादीनां निमित्तापेक्षस्वभावैवोत्पत्तिरिति / क्रियाया एव कुलालस्य घटादेरर्थस्योत्पत्तेर्दर्शनादित्येतच्च न, 1 दिति ग। 2 स्वै ग। 3 यथा ग।