________________ विवर्चवादः] न्यायागमानुसारिण्यलङ्कृतम् / 197 त्वात् खरविषाणवत् / भावाद्भिन्नोऽपि घटो भवत्येव चेत् तस्य भवने वन्ध्यापुत्रोऽपि भवेत् / एतस्य दिग्मात्रत्वादघटत्वादात्मना अभावात् पटवत् / घटभवनं हि घटः, तदभावो भावाभावश्चाघटः, तस्मादघटत्वाद् घटात्मनाऽभावात् / एनमेवार्थ व्याचष्टे-आत्मना भावादिति / साधनान्तरमेव वान्यात्मना भावादिति, यावत पटवत / यथा पटो घटात्मनाऽभवन घटो न भवत्येवं घटोपि घटात्मनाऽभवनाद् घटो मा भूत् / घटात्मना अभवनं च भावाद्भिन्नत्वाभ्युपगमात् सिद्धम् / न चेदेवं वन्ध्यापुत्रोऽपि भवेत् / घटात्मनाऽभवनात् पटवद् घटवदेव वा तद्भावाद्भेदभावाच्च घटादिभेदभावाच्च भाव एव विकल्पोऽत्र सत्यः। ___ इदानीं भेदकारणदिशमुद्राह्य दूषयिष्यन्नाह-विकल्पो हीत्यादि / विकल्पो नासत्यः / स तु भवन्नेभिस्त्रिभिः कारणैर्भवेद् भेदसंसर्गपरिणामैः / तत्र भेदेन घटाद्भिद्यमानात् कपालानि परस्परतो भिन्नानीति गृह्यन्ते / संसर्गेण तन्तूनां सङ्घातेन पटस्तन्तुभ्योऽन्य उत्पन्न इति / परिणामेन क्षीरं दधित्वेन परिणतं, दधि क्षीरादन्यादन्यदेतेषां चान्यतोक्तिःप्रयोजनादिनानात्वाल्लोके प्रसिद्धेति / एता भेदवाद्युपपत्तयो भवन्त्यो भवेयुस्तत्र न चास्य भेदो न संसर्गो न विपरिणाम इत्येतास्तिस्रः प्रतिज्ञा एकहेतुसाध्याः / कोऽसौ हेतुः ? उच्यते-एकतत्त्वात्मकत्वात् तस्य भावस्तत्त्वमेकं तत्त्वमनन्यत् स एवात्मास्य भाव इत्येकतत्त्वात्मा तद्भावादेकतत्त्वात्मकत्वात् प्रतिखत्ववत् / यथा खं प्रति प्रतिवम्, त्वमतेन भिन्नानामसाधारणः स्वात्मा यः स तु भाव इत्येवैकतत्त्वात्मकत्वान्न भेदसंसर्गपरिणामात्मकस्तथा भावोऽपीति / नास्ति विकल्पो भावस्य / अथापि स्याद्विकल्पः सोऽस्मन्मतेनैव न भेदाभ्युपगमेनेत्यत आह-विकल्पेन च भाव एव नाभावः / खपुष्पादिरसस्वादिति भाववदेवासौ भाव एकनित्यसर्वगतत्वादिधर्मा तस्यैव घटपटादिना भवनं नास्य भेदः, कश्चिद्रेदश्चाभवनात्मकत्वादित्युक्तम् / तस्मादसत्त्वादसौ न विकल्प्येत भेदः खपुष्पवत् / अतः सम्भाव्यमानश्च स्वभाव एव विकल्पितः त्वन्मतेऽपि / तस्यापि भावस्य इति / तत्त्वादेव / प्रागुक्तहेतुप्रकारेण तत्त्वादेकत्वादेव कुतोत्र भावे विकल्पः / ___ इतर आह-न तु भेदः प्रत्यक्षत इत्यादि, यावदभेदश्च न गृह्यते, पूर्वोऽयमुत्तरो घट इति दिग्भेदेन, आदिग्रहणादूर्वाधोदक्षिणापरभेदेन च गृह्यते घटादिस्तथोत्पन्नो विनष्ट इत्युत्पत्तिविनाशाभ्यां वस्तुतोऽपि घटपटादिरूपरसादिस्वरूपभेदेन कृष्णो रक्तोऽखण्डःशकल इत्यादि। एभिः कारणैः प्रविभक्तत्वादर्थानां भेदेन गृह्यमाणानां कथं भेदाभावः ? / पूर्वोत्तरशब्दाभ्यां देशकालपरिमाणक्रमा अपि गृहीताः, एवं प्रत्यक्षतो ग्रहणं भेदश्च भेदानाम्, न गृह्यते प्रत्यक्ष एवेति वर्तते / . सतः ग। 2 °नरात्य ग। 3 ना घ / त्वेतेन घ। 4 वे ग / 5 °क्तः ख°।