________________ 198 नयचक्रम् / [विधिविधिनयेअत्रोच्यते-अस्ति किश्चिदित्यादि पूर्वोत्तरादिभेदाभावं प्रतिपाद्य प्रत्यक्षत्वाभावं च प्रतिपादयिष्यन् भेदाभावप्रतिपादनार्थ तावदाह-अस्ति किश्चिदिति, भावव्यतिरेकेण किश्चित् पूर्वमुत्तरं वा नास्त्येव प्रागुक्तकारणत्वात् / ततः किं तदपूर्व यदुत्पद्यते / पूर्व वा विनश्यतीति ? पूर्वोत्तरयोरभावादेवेत्युत्पत्तिविनाशौ न स्तस्तत एव वस्तुप्रविभागोऽपि, तस्मात् पूर्वोत्तरादिदिकालोत्पत्तिविनाशवस्तुप्रविभागाभावात् किं तत्प्रविभक्तं प्रविभज्यते प्रविभक्षते वा ? यत्तदेवंधर्म तदेव नास्तीति नापूर्व भावादन्यपूर्वोत्तराद्यस्त्यतो नाभावो भेदो भवति / कथं तर्हि भेदप्रत्यक्षता ? इति चेत् , उच्यते स एव ह्युत्पाताादकाग्निवदिति / यावदन्यथापि वर्तत एव / यथोत्पाते ज्वलनमुदकस्य शीतद्रवादिगुणस्य सतोऽपि तद्विरोध्यग्निधर्मापत्त्या दृष्टो भेदोऽन्यथावर्तमानस्यान्यथावर्तनम् / आदिग्रहणानिध्युपलब्धित्वेन भूम्यबादिवर्तनं भेदेन / तद्यथोक्तं महाकालमते-'उष्मा सहस्रसंख्ये धूमो लक्षे ज्वलनं कोटौ' इति / तेषां चित्रकर्मादिहसनरोदनस्थानसंक्रान्त्यादिभेदरूपेण स एव भावो भवतीति / तस्मान्नास्ति भेदः / भिद्यमानं हि वस्त्वेवं भिद्यते स्वरूपादविपर्ययगत्या / यद्यभावो भावो भवेद् भावः स तु न भिद्येऽहमिति कथञ्चिदभावोऽपि भवति / भावादभावो हि भिन्नः / उपचितापचितभवनो वेति / स एव भावो न भिद्यत इति / कथञ्चिदुपचितापचितभवनो वेति सम्बन्धः। यावद्भवितव्यतावदेव न न्यूनो नाधिको वा भवति स भावः / इतिशब्दो हेत्वर्थे / उपचितापचितभवनाभावे दधिघटाद्यवस्थानामादिनिधनविभागाभावदर्शनादिति हेतुस्तं दर्शयितुमाह-इति न काचिदवस्था दधिघटादिरादिनिधनविभागवती, आदिः प्रागभिद्यमानस्योत्पत्तिः / निधनं विद्यमानस्य विनाशः, विभागोऽन्यत्वं एते चादिनिधनविभागा दधिघटाद्यवस्थानां न सन्ति, पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागो भावस्य प्रतिपादितत्वात् ततस्तदभावात् / नोपचीयते नापचीयते चासौ भावः, क्षीरदध्याद्यवस्थायेकरूपत्वाद्भवनस्य मृत्पिण्डघटाद्यवस्थासु चेति / एतस्य हेतोरसिद्धिं परिहरन् परपक्षे निष्ठापादनेन साधयति-यदि स्यादित्यादि / आदिनिधनविभागवती यदि स्यात् सा दधिघटाद्यवस्था खपुष्पावस्थापि तत्र तत्रयधर्मा स्यात् सर्वतो व्यावृत्तत्वाद् दधिघटवत् / सर्वतो व्यावृत्तत्वं च सिद्धं घटस्य दधिघटाद्यवस्थानां च भेदाभ्युपगमात् / तथानिच्छतस्तद्विपर्ययेण खपुष्पधर्मापादनं घटस्य / गतार्थ साधनद्वयम् / महापृथिवीवियदवस्थे सादिनिधनविभावे स्यातामितरेतरासत्त्वाद् घटवत् / घटोऽपि वा नादिरनादिरनिधनो निर्विभागश्च स्यादत एव इतरेतरासत्त्वादेवाकाशमहापृथिवीवदिति / घटभेदाभ्युपगमेनैवैतत्साधनमनिष्टापादानमिति / एवं तावदुपचि१ कदाचिग। 2 °मा ग / ऽनाद्यादि ग /