________________ विवर्त्तवादः] न्यायागमानुसारिण्यलकृतम् / 199 तापचितभेदाभावः। यदप्युक्तम्-'प्रत्यक्षत एव भेदो गृह्यते' इति / तद्ब्रहणमपि नैव भेदस्य, भेदस्याभावादेव खपुष्पग्रहणवत् / अभावः कल्पनात्मकत्वात् तस्य भावकस्यासाधितत्वाद्भेदः कल्पनात्मकः / कल्पनात्मकं वा सद्वस्तु नोऽन्यथात्वात् / सा च कल्पना देशतः कालतो वा, स्वरूपत एव वा भिन्नेष्वर्थेष्वभेदकल्पनाद्वा स्यात् / देशकालाद्यभेदे वा भेदकल्पना स्यात् / उभयथाप्यसद्रूपत्वात् कल्पनायाः / इह तु त्वन्मतेन देशकालाभ्यामभेदो नास्ति, भेद एव / घटादेः कपालादित्वेन भिद्यमानस्य वस्तुनो यावत् परमाणुशो रूपादिशोऽनभिलाप्यत्वशश्वद्भेदादभेदभावः / कालतश्च क्षणे क्षणेऽनन्यत्वात् / तस्मादनभिलाप्यपरमार्थस्य च वस्तुनो घट इति रूपादि इति वा ग्रहणमसदध्यारोपात्मकं देशकालाभेदाभावात् खपुष्पवत् खपुष्पे इव खपुष्पवत् / तत्प्रत्यक्षाभासमेवेत्यर्थः। यदप्युच्यते-अभेदश्च न गृह्यते प्रत्यक्षत इति तदपि न, यस्मादभेद एव तु गृह्यते प्रत्यक्षतः। किं कारणम् ? भावस्याभिन्नत्वात् , गृह्यमाणस्य च भावत्वात् नाभावो गृह्यते / यतः खपुष्पादि / यदि ब्रूयास्त्वं 'अथ समस्त एव कमाद्भावो न गृह्यते ?' इति / __ अत्र तु समस्तग्रहणं वक्ष्यामः सकारणं त्ववाहविनिवृत्त्यर्थत्वात् / तावत् त्वां किञ्चित् पृच्छामः / नानाहतमुखो मूर्खस्तिष्ठति इति / अथ भेदपक्षे पश्यता त्वया घटं किं समस्त एव घटो न गृह्यते ? इति / परान्तरादिभागाः किं न प्रत्यक्षाः ? आराद्भागा एव किं प्रत्यक्षाः ? इत्यत्र विशेषकारणं कथयेति / किं चान्यत्-समानदोषत्वादचोद्यमेतत् / उभयोः समानो दोषो नासावेकतश्चोद्यतः भावस्य सर्वगतस्याप्रत्यक्षत्वदोषो मम नास्तीति स्वपक्षे भेदस्य प्रत्यक्षत्वादिति विशेषं तव पश्यत एवं युज्येत वक्तुमित्थं भवति तथा भवतीति / एतदपि सम्भावनयोच्यते न तु सर्वत्रैवादर्शनभाक् पक्षो यस्य तव तस्य न तु युज्यत एवेत्यर्थः / सर्वत्रैव न घटेत रूपादौ वा, न क्वचित् प्रत्यक्षता युज्यत इत्यर्थः / अथवा स्वपरपक्षयोः सर्वत्रैव / एतदुक्तं भवति / एवं हि स्वपक्षरागाविष्टो भवान् परमत्सरेण स्वदोषं नैव पश्यति, स्वचरणलग्नपाशादर्शी प्रयोजनावस्थितामिषदर्शीव शकुनिः। त्वत्पक्षेऽत्यन्तदर्शनासम्भवादेव घटादेः प्रत्यक्षत्वाभावः॥ इदानीमभेदपक्ष एव दर्शनं सम्भवति नान्यत्रेति वक्ष्याम इति यदुक्तं तद्दशयिप्यन्नाह-तत्त्वदर्शनमिति / तत् पुनरदर्शनम् / तुर्विशेषे / विशेषेणात्रैवाहेतुपक्ष एव निवर्तते नान्यत्रेति / न भेदपक्षे यावनिरभिलाप्यत्वशो भेदादित्युक्तम् / तददर्शनं तर्हि कथम् ? इति तत् समर्थयति-इहाभेदे भावे यदेतत् सर्व तद्भाव एवाभिन्नत्वात् / तस्याभिन्नस्य भावस्य स एकदेशो घटः। तस्य ग्रहणे घटस्य ग्रहणे तस्यैव ग्रहणम् / भावस्यैव ग्रहणं समस्तस्य / किं कारणम् ? / ततोऽभिन्न१°भावक ग / 2 °स्य ग / 3 सात् भेग / 4 °यति ग / 5 °स्तुं ग / 6 व घ।